________________
ज्ञानसारे तत्त्वदृष्टयष्टकम्
द्विरागश्चैव भवतीति दृष्टिभेद एव रागवैराग्ययोः प्रयोजको न तु विषयस्य तत्र कोऽपि स्वकृतो व्यापार इति भावः || ६ || तदेवं वस्तुग्रहणे दृष्टिभेदं निरूप्य वस्तुपरीक्षणे तन्निरूपयति
भस्मना केशलोचेन वपुर्धृतमलेन वा । महान्तं बाह्यग् वेत्ति चित्साम्राज्येन तत्त्ववित् ॥ ७ ॥
-
२०७
भस्मनेत्यादि । बाह्यदृक्-वस्तु बहिर्गुण बहुमान्यपरमार्थज्ञो वस्तु परीक्षायामपटुर्जनः, भस्मना - देहसमालिप्तेन भसितेन कृत्वा, केशलोचेन - केशाः कचास्तेषां लोचो लुञ्चनं हस्तेनोन्मूलनं तेन कृत्वा, वा- तथा वपुर्धृतमलेन - वपुषा शरीरेण धृतोऽनपाकरणाद् धृत इव यो मलः प्रस्वेदादिभिः संश्लिष्टधूल्यादिस्तेन -कृत्वा, महान्तम्-श्रेष्ठम्, महात्मानमित्यर्थः । वेत्ति - अवधारयति, बहिर्दृष्टि िजनो बाह्योपाधिभिरेव वस्तुवैशिष्ट्य भवधारयति, अन्तस्तत्त्वपरीक्षण साधनविकलत्वादिति शोचनीयः सः, कदाचिद्वञ्चनस्याऽपि सम्प्राप्तेः । बहिर्दृष्टि बहिर्गुणेष्वेव रज्यतीति यावत् । तच्चवित्-वस्तुनोऽन्तस्तत्व माहिबुद्धिर्बहिरुपाधिभिरप्रभावितमतिजैनः, चित्साम्राज्येनचित्सम्यग्ज्ञानम्, तस्य यत्साम्राज्यं वैभवं तेन कृत्वा, महान्तं वेत्तीति सम्बध्यते । यो हि ज्ञानी, वस्तुतः स 'एव महान् । वेषमात्रस्याऽकिञ्चिःकरत्वात् । एवञ्च ज्ञानमेव महत्त्वप्रयोजकम् । अतस्तत्त्वविज्ज्ञानेनैव महान्तं वेति । बहिर्द्धकत्वन्तस्तत्त्वनिरीक्षणाऽक्षमो बहिरुपाधिबहुमानी वेषेणैव महान्तं वेति । इतश्च