________________
२०६
भद्रङ्करोदयाख्यव्याख्याविभूषिते
• लीयते । यदुक्तम् - " मज्जत्यात्मनि नीरूपे तत्त्वदृष्टिस्त्वरूपिणी 'ति भावः । यद्बीभत्सं दूषितं च तत्र लावण्यभ्रमो बाह्यदृशो न तत्त्वदृश : इत्यत एकस्य तत्र मोहोऽपरस्य च ततो वैराग्यमिति हृदयम् ॥ ५ ॥ अथागारविषये दृष्टिभेदं विवृणोति
गजार्श्व भूपभवनं विस्मयाय बहिर्डशः । तत्राऽश्वेभवनात्कोsपि भेदस्तच्चदृशस्तु न ॥ ६ ॥
गजाश्चैरित्यादि । भूपभवनम् - भुवं महीं पाति रक्षतीति भूपो महीपतिस्तस्य भवनं सदनं कर्तृ, "निशान्तपस्त्य सदनं भवनाऽगार मन्दिरमित्यमरः । गजाश्वैः - गजैर्हस्तिभिरश्वैईयैश्व, उपलक्षणत्वादन्यैरपि परिजन परिच्छदधनधान्यादिभिः
- बहिर्द्दश: - उक्तप्रकारस्याऽज्ञानिनोऽनात्मज्ञस्य विषयस्य बहुमा निनः, बिस्मयाय-अहो अद्भुतमेतदित्येवं सहर्षाऽऽश्वर्याय जायते - इति शेषः । सुदुर्लभत्वात्तेषां कृते तादृशसमृद्देरिति बोध्यम् । -बहिर्डशोऽज्ञानात्पोद्गलिकसमृद्धिं सुदुर्लभं मन्यन्ते इति तद्दृष्ट्वा विस्मयं यान्तीति भावः । तुर्वैपरीत्यें । तत्रदृशः - पारमार्थिकमतेः, तत्र - गजाश्वादिसमृद्धे भूपभवने, अश्वेभवनातू - अश्वा हया इमा गजाश्च तेषां तदधिष्ठितत्वात्तत्सम्बन्धि यद्वनमरण्यं तदपेक्ष्येति - यलोपे पञ्चमी । कोऽपि - ईषदपि, भेदः - विशेषः, न-नेत्र, विद्यते - इति शेषः । यथा वन्यैर्गजादिभिर्नात्मनः कोऽपि लाभस्तथा भूप-भवनस्थैरपि नात्मनः किमपि वैशिष्ट्यमित्यतो वस्तुपरमार्थज्ञानवतां -न गजादिसमृद्ध्या विस्मयः, प्रत्युताऽनात्मभूतत्वात्तत्रोपेक्षाऽनात्म