________________
झानसारे तत्वदृष्टयऽष्टकम्
२०५
अथ शरीरविषये दृष्टिमेदं विवृणोतिलावण्यलहरीपुण्यं वपुः पश्यति बाह्यदृक् । तत्वदृष्टिः श्वकाकानां भक्ष्यं कृमिकुलाकुलम् ॥ ५ ॥
लावण्येत्यादि । बाह्यदृक्-बाह्याऽनात्मनि बहिर्भूते शरीरादौ समासक्तत्वाबहिर्भवेव दृग्दृष्टिमतिर्यस्य स तादृशः, उक्त कारो बहिर्दृष्टिर्जनः, वपुः-शरीरम् , सामान्योक्त्या स्वकीयं परकीयं चेति बोध्यम् । लावण्यलहरीपुण्यम्-लावण्यस्य मुक्ताफलतरलकान्तेर्या लहयस्तरङ्गा इवानुक्षणमुद्भासनात्परम्परास्ता एव पुण्यमिव सुख जनकत्वात्पुण्यं यत्र तत्तादृशम् , यथाऽऽत्मा पुण्येन राजते तथा लावण्यलहरीभिर्विराजमानमित्यर्थः । "ऊर्मिरुत्कलिकोल्लोलकल्लोललहरिस्त. थे"ति कोषः । पश्यति-अबलोकते जानाति च। अज्ञानाद्रागवशाद्वस्तुतोबीभत्समपि गुणवदेव मन्यते । यदुक्तम्-"भ्रमबाटी बहिष्टिभ्रंमच्छाया तदीक्षणमिति भावः । तदेव बपुः, तत्वदृष्टिः-उक्तप्र-- कारोवस्तुयाथात्म्यग्राही पारमार्थिकमतिर्जनः, कृमिलाकुलम्-कृमीणां सूक्ष्मतराणां कीटविशेषाणां कुलैः समूहैराकुलमाकीर्णमा च, श्वकाकानाम्-श्वानः कुक्कुराः, उपलक्षणत्वात्तादृशाः श्वापदाः, काका वायसाः, उपलक्षणत्वाद् गृध्रादयश्व, तेषाम्, भक्ष्यम्-- मोज्यम्, पश्यतीति सम्बध्यते । वाह्यदृष्टिजनो वपुषि कुम्यादिभि बीभत्से श्वकाकभक्ष्यत्वादनित्ये च लावण्यं पश्यन् रज्यते वध्यते च। तत्त्वदृष्टिस्तु तदेव वपुर्वस्तुतो बीभत्सम नित्यं चेति नात्मनस्तेन कोऽपि लाभो न वा स्वमिति तत्र ममत्वं विहायाऽऽत्मस्वभाव एव