________________
..२०४
भद्रङ्करोदयाख्यव्याख्याविभूषिते क्रमाऽङ्गसन्निवेशादिसमग्रा स्त्री, सुधासारघटिता-सुधाऽमृतं तस्या यः सारो दुग्धादेर्नवनीतादिरिव श्रेष्ठोंऽशस्तेन घाटेता निर्मिते. वेति लुप्तोत्प्रेक्षा । माति-प्रतिभाति । पुद्गलानन्दी जनःसुन्दरी पीयूषत इव ततस्तृप्ति विशेष मोहादवधार्य सम्भाव्य च सुधाघटितामिव मन्यते इत्यर्थः । परमार्थतोऽनिष्टानुबन्धित्वादिकं तस्या न पश्यति, सुखातिशयनिमित्तमेव तां बुध्यते इत्याशयः । तत्र च स्वस्य बहिदृष्टिरेव निमित्तमिति बाह्यदृष्टेरित्यनेन ध्वन्यते । तुर्वैप. रीत्ये । तदाह-तत्वेत्यादि । तच्च दृष्टे:-परमार्थपर्यन्तानुधाविमतेः, फले शुभत्वादेवोपाये शुभत्व माहिम तेरिति यावत् । मा-बाह्यदृष्टेः सुधासारघटितेव भान्ती सुन्दरी, साक्षात्-प्रत्यक्षत एब, विन्मूत्र. पिठरोदरी-बिडवस्करो मूत्रं प्रस्रवणं तयोः पिठरं स्थाली, तद्रूपमित्यर्थः । “ पिठरं स्थाल्युखा कुण्डमि"त्यमरः । तादृशमुदरं यस्याः सा तादृशी, भातीति सम्बध्यते । अत्रेदं बोध्यम्-" न हि सौन्दर्य दृष्टिपरतन्त्रम् , किन्तु बस्तुनिष्ठो धर्मविशेषः । एवञ्च सुन्दरी सर्वेषां सुन्दर्येव । किन्तु बाह्यदृष्टिः परिणामाऽज्ञानाज्ज्ञानेऽपि वा गजनिमीलिकया रागवशादुपेक्षणान्मोहात्सौन्दर्यबुद्ध्या तत्र साति. शयमा सक्ति भेति । तत्त्वदृष्टिस्तु तम्या दुष्परिणामत्वात्सतोऽपि वाह्यधर्मानुपेक्ष्येयं वस्तुतो बिण्मूत्रपिठगेदरीतिकृत्वा ततो विरज्यते । यदुक्तम् - " मांसमूत्रपुरीषाऽस्थिनिर्मितेऽस्मिन् कलेवरे । विनश्वरे न काऽप्यास्थे"ति । एवं च दृष्टि वशादेव प्रामारामादितो मोहो वैराग्यं वेति बाह्य दृष्टे मोहो यतस्तत एव तत्त्वदृष्टेग्यमितिभावः ॥ ४ ॥