SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०८ भद्रङ्करोदयाख्यव्याख्याविभूषिते स्वस्याऽन्यस्य च तं गुणं प्रशंसति, कदाचिद्वळच्यतेऽपि दम्भिना । बदुक्तम्-" दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहत " इति । अत एव बहिर्गुणदृष्टि बहिर्दृष्टिरन्तस्तत्त्व दृष्टिस्तत्वदृष्टिरित्युच्यते। एवञ्च बहिर्दृष्टिपरिहारेण तत्त्वदृष्टये सर्वथा यतनीयम् , यथा न वञ्चित स्यादात्मप्रशंसातश्च विरतो भवेदिति तात्पर्यम् ॥ ७ ॥ तदेवं तत्त्वदृष्टयस्तत्त्वं दर्शयित्वा विश्वस्योपकुर्वन्तीति शिष्य प्रबोधयन्नुपसंहरति न विकाराय विश्वस्योपकारायैव निर्मिताः । स्फुरत्कारुण्यपीयूषवृष्टयस्तच दृष्टयः ॥८॥ इति महामहोपाध्यायश्रीमद्यशोविजयोपाध्यायविरचिते ज्ञान, सारे तत्वदृष्यष्टकं नामैकोनविंशतितमाऽष्टकम् ॥ १९ ॥ ___न विकारायेत्यादि । स्फुरत्कारुण्यपीयपवृष्टयः-स्फुरत्सामान्यभावेन सर्वतः प्रसरळ्यक्तं च करुणैव कारुण्यमेव पीयूषवृष्टिरिबोपकारित्वाच्छुभपरिणामप्रदत्वाच्च पीयूषवृष्टिरमृतसेको येषां ते तादृशाः, निर्हेतुकपरमकारुणिका इत्यर्थः । या हि करुणा प्रयोबनवशान सा पीयूषतुल्याऽपितु निकृष्टेति बोध्यम् । एतेनोप. कारसामग्रीसाकल्यमप्युक्तम् । नहि विना तादृशकरुणां कोऽपि निर्निमित्तमुपकरोतीतिध्येयम् । तच्चदृष्टय:-यथावस्थितवस्तुपरमार्थज्ञा जनाः, विश्वस्य-उपलक्षणत्वात्तास्थ्यानाच्छब्द्यन्यायापाणिनः, उपकाराय-वस्तुतत्त्वोपदेशादिनाऽज्ञानात्मकव- :हिदृष्टिनिवृत्तिपूर्वकसज्ज्ञानात्मकहितायैव, एवकारव्यवच्छेद्यमाह
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy