________________
ज्ञानसारे तत्त्यदृष्टयऽष्टकम्
२०१
भ्रमवाटीत्यादि । बहिदृष्टिः-बहिरात्मवाह्यपौद्गलिकस्रक्चन्दनाङ्गनादिविषयत्वाहहिरिव स्थिता दृष्टि बुद्धिः, रूपे रूपाऽवलोकिनी दृष्टिरसन्मतिश्च । यस्य सः, अनात्मज्ञः पुद्गलानन्दी जनः, भ्रमवाटी-भ्रमस्य तजनकत्वात्तत्सम्बन्धिनी, लतापुष्पादीनां वाटी गृहोद्यानमिव वाटी, अम्वे स्वत्वस्याऽसुखे सुखस्य चाऽऽरोपणाद्रमभूमिरित्यर्थः । यद्वा बहिदृष्टिविषयत्वाल्लक्षणया वहिर्दृष्टिविषयसक्चन्दनाङ्गनादिकमेव बहिर्दृष्टि भ्रमवाटी स्वत्वसुखादिभ्रमस्य विषयतया प्रयोजकत्वाल्लतादीनां वाटीव भ्रमोत्पादस्थानमित्यर्थः । अथ च बहिर्दृष्टि बर्बाह्यपौद्गलिक विषयाभिमुखीमति भ्रमवाटी भ्रममयत्वाद्भमभूमिरिति चाऽर्थः । ननु वाट्यां तदनुरूपा तापनिवर्तनक्षमा शमप्रदा च च्छायाऽपि स्यादित्यत आह-भ्रमच्छायेति । तदीक्षणम्-तस्य बहिर्दृष्टेस्तत्कृतत्वात्तत्सम्बन्धि, तस्य स्रगादेस्तद्विषयत्वात्तत्सम्बन्धि, तस्या बहिदृष्टेम्तकर्तृत्वात्तत्सम्बन्धि वा यदीक्षणं दर्शनमस्वेऽसुखादौ च स्वत्वसुखादेरनुभवः स्रगादौ रूपादिपरिच्छेदश्च स्रगादि विषयग्रहश्च, भ्रमच्छाया-भ्रमात्मिका छाया प्रतिबिम्बम् , यस्य हि वाटी तदनुरूपं प्रतिबिम्ब मिति भ्रमवाट्या अस्वादौ स्वत्वादेररूपे रूपादेश्च साक्षात्कारात्मको भ्रम एव छाया। तदर्शनं भ्रमात्मकं ततो भ्रम एव जायते इति वाऽर्थः । अत एव न तत आत्मलाभः सुखं वा, नहि भ्रमोऽर्थक्रियाकारीति भावः । तु हेतो, अत एव, अभ्रान्त:-भ्रमस्पर्शशून्यः, अन्यथा तत्वदृष्य 'निर्वाहादिति बोध्यम् । तत्वदृष्टि:-तत्त्वे दृष्टिर्यस्य तत्त्वात्मिका वा दृष्टिर्यस्य सः, विवेकपूताऽन्तर्दृष्टि वस्तुयाथात्म्यज्ञानवान् जनः,