SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०० भद्रङ्करोदयाख्यव्याख्याविभूषिते मेदे च । तत्वदृष्टि बहिष्टभिन्ना विशिष्टा चेत्यर्थः । तदाहमजतीत्यादि । अरूपिणी-रूपस्य मूरभावोऽरूपम् , तदस्या अस्तीति सा, अमूर्तेत्यर्थः । यद्वा रूपं विषयतयाऽस्त्यस्या इति रूपिणी तादृशी न भवतीति साऽरूपिणी, बहिर्विषयाऽनभिमुखी. त्यर्थः । तत्वदृष्टिः-तत्त्वं वस्तुयाथात्म्यं तस्य तद्विषयीकारातत्स. म्बन्धिनी दृष्टिबुद्धिः, पुद्गलादिकमस्वं विहाय सच्चिदानन्दात्मके स्वस्मिन्नेव स्वत्वाऽध्यवसायशीला च मतिः । सम्यग्ज्ञानमित्यर्थः । विवेकपरिपूतान्तदृष्टिरिति यावत् । नीरूपे-रूपान्निर्गतस्तस्मिन्नमूर्ते, आत्मनि-सच्चिदानन्दात्मन्येव, मजति-तन्मात्रविषयतया तत्रैव लीयते इत्यर्थः । सुखाशयेति बोध्यम् । यो हि वस्तुयाथात्म्याs. ज्ञानादस्बे पौलिके बहुमानी स तत्रैव लीयते । ज्ञातवस्तुयाथात्भ्यश्च सम्यग्ज्ञानी पौद्गलि कमस्वमसुखानुबन्धि चेति तद्विहाय स्वस्मिन्नेव सच्चिदानन्दात्म के आत्मनि लीनो भवतीति तस्य तादृशात्मलाभादुत्कर्षाऽपकर्षाऽनल्प कल्पना गलतीति बहिर्दृष्टिस्त्याज्या तत्त्वदृष्टिश्चोपादेयाऽऽत्मल, भेच्छु नेति भावः । अत्र रूपवतः समे रूपवत्यरूपिणश्च समेऽरूपे योगवर्ण नात्समाऽलङ्कारः ॥ १ ॥ ननु स्रावन्दनाऽङ्गादिभ्यः सुवं मर्वाऽनुभव साक्षिकमिति किमिति तत्र तत्त्वदृष्टि ने मज नीति शिष्याऽऽशङ्कां निरा. चिकीर्षुराहभ्रमवाटी बहिदृष्टि भ्रमच्छाया तदीक्षणम् । अभ्रान्तस्तत्वदृष्टिस्तु नाऽस्यां शेते सुखाया ॥२॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy