SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ शानसारे तत्त्वदृष्ट्यऽष्टकम् ॥ अथ तत्वदृष्ट्यष्टकम् ॥ यदुक्तं " निरपेक्षाऽनबच्छिन्नाऽनन्तचिन्मात्रमूर्तय" इति । तत्र तादृशचिन्मात्रमूर्तित्वं कथं साध्यभिति शिष्य जिज्ञासा समाधातुं तादृशमूर्तित्वसाधिका तत्त्वदृष्टिरेवेत्यष्टकेन निरूपयन्नादौ तस्या विपक्षपरिहारेणात्ममात्रविषयकत्वमाह रूपे रूपवती दृष्टि दृष्ट्वा रूपं विमुह्यति । मजत्यात्मनि नीरूपे तत्वदृष्टिस्त्वरूपिणी ॥ १ ॥ रूपे इत्यादि । रूपवती-रूपमस्या अस्तीति सेति मतुः । न्यायनये तेजस्त्वाद् भास्वर शुक्ला, स्वनये च निर्वृत्त्युपकरणात्मिका शुक्लनीलादिरूपवतीत्यर्थः । दृष्टिः-नेत्रम् , चर्म चक्षुरित्यर्थः । बहिदृष्टिरिति यावत् । किञ्च-रूपं लक्षणया रूपवत्स्रक्चन्दनाऽङ्गनादिकं विषयतयाऽस्त्यस्या इति सा, पौद्गलिकविषयाऽभिमुखीत्यर्थः, दृष्टिर्मतिः, लक्षणया तादृशदृष्टिमान् पुरुषश्च। रूपे-रूपं मूर्तिरिति तत्त्वार्थाधिगमभाष्यम् , निरूढलक्षणया तद्वति, मूर्ते सक्वन्दनाऽ. जनादावित्यर्थः । रूपम्-सौन्दर्यम् , “रूपं स्वभावे सौन्दर्ये " इत्यमरः । दृष्ट्वा-अवलोक्य, ज्ञात्वा च, विषयीकृत्येति यावत् । यद्वक्ष्यति-"वाह्यदृष्टेः सुधासारघटिता भाति सुन्दरी"ति, “लावण्य. लहरीपुण्यं वपुः पश्यति बाह्यदृगि"ति च । विमुह्यति-मोहमेति । सुखाशयाऽम्वेऽपि स्वत्वमसुखेऽपि सुखमारोपयतीत्येवमनुरज्यतीत्यर्थः । रूपवतो रूपिणो रूपेऽनुरागस्तादात्म्याऽध्यवसायश्चोचित एव । यदुक्तम्-'पुद्गलैः पुद्गलास्तृप्तिं यान्ती'ति भावः। तुर्विशेषे
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy