________________
१९८
भद्रङ्करोदयाख्यव्याख्याविभूषिते
,
चित्केवलं ज्ञानमेव चिन्मात्री मूर्त्तिः स्वरूपं येषां ते तादृशाः, विषयानपेक्ष देश विशेषाऽनपेक्षाऽनन्त वस्तु विषयाऽविनश्वर विशुद्ध केवलज्ञानात्मान इत्यर्थः । केवलज्ञानं ह्यतीतानागतविषयमपीति विषयाऽनपेक्षम्, मत्यादिकं च विषयाऽपेक्षम् । तथा केवलज्ञानं सर्वदेश विषयत्वाद्वयापकमिति देश विशेषाऽनवच्छिन्नम् मत्यवध्यादिकं तु क्षेत्रविशेषाऽपेक्षम्, एवं केवलज्ञानं नित्यमनन्तद्रव्यपर्यायविषयञ्चत्यनन्तम्, मत्यादिकं त्वनित्यमसर्वद्रव्यपर्यायविषयं चेति बोध्यम् । केवलिन इति सारार्थः । योगिनः- सिद्धदर्शनज्ञानचारित्राः एव सर्व वाक्यं सावधारणमिति न्यायादेवार्थो लभ्यत इति बोध्यम् । निर्विकल्पात्मान इति निष्कर्षः । गलितोत्कर्षापकर्षाऽनल्पकल्पना :- गलिता विनष्टोत्कर्षस्य स्वमदत्त्वस्याऽपकर्षस्य परकीयन्यूनताया अनल्पाऽतिबहुः कल्पना विकल्पो येषां ते तादृशाः, स्वोत्कर्षपरापकर्ष कीर्त्तनविमुखा इत्यर्थः । भवन्तीति शेषः । तेषां निर्विकल्पात्मत्वाद्विकरूपसामान्याऽभावात्स्वोत्कर्षपरापकर्षवि कल्प योग्यता विरहादिति बोध्यम् । अन्येषां त्वल्पशोऽपि तादृशकल्पनालेपः सविकल्पात्मत्वात्सम्भवत्येवेति तेषां तत्परिहाराय प्रयत्नोऽवश्यविधेय इति हृदयम् ॥ ८ ॥
"
इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यास प्रवरश्रीयशोभद्रविजयगणिवर शिष्यपन्यास श्रीशुभङ्कर विजय गणि विरचितायां भद्रङ्करोदयाख्यायां व्याख्यायामनात्मप्रशंसाऽष्टकं नामाऽष्टादशाऽष्टकम् || १८ ||