________________
ज्ञानसारे अनात्मप्रसंसाऽष्टकम्
1
ये ओघा वारिप्रवादास्तांश्च, बुद्बुदी कृत्य - अबुहु दान् बुहु दान् कृत्वा, स्वयं प्रशस्य बुद्बुदवदल्पसारान् कृत्वा, बुहुदरूपान् कृत्वा चेत्यर्थः । सुधा निरर्थकमेव, किमिति क्षेपे, विनाशयसि - नाशं प्रापयसि, नैवं कर्त्तव्यम् गुणनाशनं ह्यनुचितमित्यर्थः । प्रशंसया गुणनाशान्न किमपि फलं प्रत्युन गुणहानिरेवेति मुधैव गुणनाशनमित्याशयः । समुद्रो हि पवनप्रेरितः क्षुभ्यति, तेन च तत्पूरेषु बुहुदा जायन्ते नश्यन्ति चेति प्रसिद्धम् । तथा मुनिरन्यो वा गुणगवान्मनसः स्थैर्य विलोप्य गुणान् बुद्धवत्प्रकाशयति, आत्मानं प्रशंसतीति यावत् । तेन च गुणहानिरेव न तु कोऽपि लाभ इत्यात्मप्रशंसा न कर्त्तव्या । तादृशश्वोपलभ्यो धीमतो भवतीत्यपरं वैगुण्यमितिहृदयम् । श्लेषा-नुप्राणितः परम्परितरूपकाऽलङ्कारः ।। ७ ।।
1
१९७
सम्मति निर्विकल्पाऽवस्थायामेव सर्वथा स्वगुणकीर्तनात्रिवृत्तिः सम्भवतीति परमार्थं शिष्यं प्रबोधयन्नुपसंहरतिनिश्पेश्चाऽनवच्छिन्नाऽनन्तचिन्मात्रमूर्त्तयः
:
योगिनो गलितोत्कर्षापकर्षाऽनल्पकल्पनाः ॥ ८ ॥ इति महामहोपाध्याय श्रीमद्यशोविजयोपाध्यायविरचिते ज्ञानसारेनात्प्रशंसाष्टकं नामाऽष्टादशष्टकम् ॥ १८ ॥
निरपेक्षेत्यादि । निरपेक्षाऽनवच्छिन्नाऽनन्तचिन्मात्रमूर्तयः - निरपेक्षाऽपेक्षा या विषयादिसम्बन्धिन्या निर्गता सा, विषयाद्यपेशाशून्या इत्यर्थः । अनवच्छिन्ना देश विशेष विशेषणरहिता, अनन्ता कालविशेषविशेषणरहिताऽनन्तवस्तुविषयत्वादविनश्वरत्वात्सार्वदेशि कलाढ्य पिकत्वा चैताव देतदवधीत्यादिरूपेण देशकालमानरहिता या