________________
भद्रङ्करोदयाख्यव्याख्याविभूषिता
मात्मनो द्विविधाःपर्ययाः शुद्धा अशुद्धाश्च । निश्चयत आत्मनः स्वरूपभूताः शुद्धाः । अतएवोत्कृष्टाः। व्यवहारतस्तथाभूता अशुद्वाः, अत एवाऽपकृष्टाः। उत्कृष्टाः सर्वजीवेषु तुल्या इति नोत्कर्षप्रयोजकाः। अपकृष्टाश्च जीवेषु प्रत्येकं तारतम्यवन्तोऽप्यपकृष्टत्वा. देव नोत्कर्षप्रयोजका इति न तैरात्मा प्रशंसामर्हति तुल्यत्वादपकृष्टत्वाद्वेति निष्कर्षः । अत्र च तैः पर्यायै यो नोत्कर्षमेति स. महामुनिः, महामुनिरेव च तादृशैः पर्यायै नोत्कर्ष गच्छतीति । महामुनेरेति श्लोकान्तपदेन ध्वन्यते ॥ ६ ॥
सम्पति शिष्यस्याऽऽत्मप्रशंसातो निवृत्ति यथा स्यादित्यात्मप्रशंसिन उपालभते
क्षोभं गच्छन् समुद्रोऽपि स्वोत्कर्षपवनेरितः । गुणौषान् बुद्धी कृत्य विनाशयसि किं मुधा १ ॥७॥
क्षोममित्यादि । समुद्र:-मुद्रा मुनिलाञ्छनम् , सुवर्णादिधनं च, तया सहितः समुद्रो मुनिवशविभूषितो लोकदुर्लभमुनिलिङ्गत्यागादिसत्त्वसम्पन्नःसमुद्र इव स्थिरो गभीरश्वाऽपि वा, आढ्यश्च । अथ च समुद्रः सागरः। अपिनाऽमुद्रस्याऽसमुद्रस्य चाल्पसवादयनीय. . तयोपेक्ष्यतया चाऽनुपालभ्यता सूच्यते । स्वोत्कर्षपवनेरित:-. स्वस्योत्कर्षो गुणाधिक्या वः स एव क्षोभप्रदत्वात्पवनो वायुस्तेनेरितः प्रेरितश्चालितो वा, क्ष भप-अस्वस्थचित्तताम् . अस्थिरत्वं च । गच्छन्-प्राप्नुवन् , गुणोधान्-गुणानां स्वकीयोत्तमधर्माणामोषाः समूहास्वान् , गुणा लक्षणया गुणवन्तो वेगगाम्भीर्याऽऽवर्तादिमन्तो