________________
ज्ञानसारे अनात्मप्रशंसाऽष्टकम्
अबोधयन्नाह -
शुद्धाः प्रत्यात्मसाम्येन पर्यायाः परिभाविताः । अशुद्धाश्चाऽपकृष्टत्वानोत्कर्षाय महामुनेः ॥६॥
शुद्धा इत्यादि । महामुने:-परमस्य सम्यग्ज्ञानिनो मध्यस्थस्य, एतेन वस्तुनो याथात्म्येन ग्रहसामग्रीसाकल्यमुक्तम् । सम्यग्ज्ञानी मध्यस्थ एव वस्तु याथात्म्येन परिच्छिनत्तीति बोध्यम् । परिभाविता:-परिशीलिताः, याथास्येन परिच्छिन्ना इत्यर्थः । सन्त इति शेषः । शुद्धाः-निश्चयनयविषयाः, यथार्था इति यावत् , पर्याया:-निजात्मधर्माः ज्ञानादयः पर्यायशब्दवाच्याः, प्रत्यात्मसाम्बन-आत्मन्यात्मनीति प्रत्यात्मम् , एकैकशः सर्व जीवेष्वित्यर्थः । साम्येन तुल्यतया हेतुना, जीवमात्रस्यैवाऽन्यूनाधिकज्ञानादिमत्वात् , व्यनये जीवानां प्रत्येकं स्वरूपतोऽविशेषादिति भावः। उत्कर्षायइतराऽपेक्षया महत्त्वाय, स्वत्येत्यर्थबलाल्लभ्यते, न-नैव, भवन्तीति शेषः । यद्धि सर्वेषां तुल्यं न तत्कृतं महत्वं कस्यापि, अपितु तुल्यतेव, महत्त्वे विलक्षणोत्कृष्टधर्मस्य साम्ये च तुल्यधर्मस्य प्रयो. बकत्वादिति भावः। अशुद्वा:-परसम्बन्धित्वादारोपितस्वत्ववत्त्वानश्वरत्वादनिष्टानुबन्धित्वच्च सदोषाश्चक्रित्वादयः, चेन पर्याया इति सम्बध्यते । अपकृष्टत्वात् -अधमत्वात् , आरोपितत्वेन गौणत्वाद्धेतो. रित्यर्थः । उत्कर्षाय नेति सम्बध्यते । नह्य कृष्ट धर्मः कोऽप्युत्कृष्टो भवति, अन्यथाऽकृष्ट एव कोऽपि न स्यात् । व्यवहारतस्तथा सम्भ. वेऽपि निश्चयतस्त इसम्भवादितिबोध्यम् । शुदन येन हि विचारणे