________________
भद्रङ्करोदयाख्यव्याख्या विभूषिते
ननु यश्च यावांश्चोत्कर्षः स्वस्य तस्य तावतो ज्ञानं शंसनं वा
"
न दोषो यथार्थत्वादिति शिष्यतर्फे विजघटयिषुराइ --
१९४
शरीररूपलावण्यग्रामाऽऽरामधनादिभिः । उत्कर्षः परपर्यायैश्चिदानन्दघनस्य कः १ ॥ ५ ॥
1
66
शरीरेत्यादि । चिदानन्दघनस्य चिच्छुद्धं ज्ञानमानन्दः शाश्वताऽखण्डनिरतिशय सुखम्, ते घनः सारांशो यस्य स तादृशश्विदानन्दघनश्चिदानन्दस्वरूप आत्मा तस्य, निश्वयत आत्मनस्तथास्वरूपमेवेति बोध्यम् । परपर्यायैः - परे आत्मभिन्नाः पुद्गलास्तेषां पर्यायै धर्मैः, पुद्गलपरिणामरूपैरात्मनोऽस्वैः, शरीररूपलावण्यग्रामाssरामधनादिभिः - शरीरं दृढं यथाक्रमाङ्गसन्निवेशसुभगं गात्रम्, रूपं शोभनाऽऽकृतिः, लावण्यं मुक्ताफलतरल कान्तिः, यदुक्तम्मुक्ताफलस्य च्छायायास्तरलत्वमिवाऽन्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यत " इति । प्रामः स्वभूतो नगरादिः, आरामः स्वमुपवनम्, घनं सुवर्णादि, आदिना स्त्रीपुत्रादिः, एवमेतैः, " रूपं स्वभावे सौन्दर्ये " इति " आरामः स्यादुपवनमि "ति चामरः । कः कीदृशः, उत्कर्षः - महत्त्वम्, काक्वा न कोऽप्युत्कर्ष इत्यर्थः । नहि कोऽपि परस्वैर्महान्, अन्यथा सर्वो महानेव स्यात् । अपि तु स्वस्वैः । एवं च परस्वैः स्वं महान्तं मत्वा विकत्थनमबुधजन विलसितमुपहासास्पदं चेति शरीरादिभिः स्वोत्कर्षशंसनं दोष एवाडवास्तवत्वादिति तद्धेयमेवेति भावः ॥ ५ ॥
वस्तुतस्त्वात्मप्रशंसायां कोऽपि हेतुरेव नास्तीति शिष्यं