________________
शानसारे अनात्मप्रशंसाऽष्टकम्
१९३
सुदुर्लभगुणप्रभावा अहं च निर्गुणो दुर्गुणोऽल्पगुणो वा सूर्यस्य पुरस्तात्खद्योत इवेत्येवं परिशीलनम्", मनसि पुनः पुनः स्वस्याऽपकचिन्तनमित्यर्थः । तदेव, उच्चत्वदृष्टिदोषोत्थस्वोत्कर्षज्वर. शान्ति कम्-उच्चत्वं निजाऽपेक्षया हीनगुणान् दृष्ट्वा तेभ्यः स्वस्यो. चमत्वं तस्य या दृष्टि निम् , ' इमेऽतिहीनाः, अहमेतेभ्योऽत्यु. चम' इत्येवं मतिः, सैत्र, स्वोत्कर्षवरहेतुत्वाद्दोषः पित्तादिवैगुण्यमिव दोषः, यद्वोच्चत्वस्योक्तप्रकारस्योच्चत्वविषयत्वादुच्चत्वसम्बन्धिनी या दृष्टि निं सैव दृष्टे निस्य दोषो वैगुण्यम् , भ्रम इत्यर्थः । पित्तादिवैगुण्यं च । स्वापेक्षयाऽप्यतिमहतां वर्त्तमानानां पूर्वजानां च बहूनां सत्त्वात्स्वोच्चत्वज्ञानं भ्रम एव, वस्तुतः स्वस्य पूर्वजाद्यपेक्षयाऽतिनिकृष्टत्वादिति बोध्यम् । तस्मात्तादृशदोषादुत्तिष्ठतीति स तादृशः, तादृशदोषज इत्यर्थः । तादृशो यः स्वस्याऽऽत्मन उत्कर्षोऽहं महानतिशयशाली वेत्येवं गर्वः स एव ज्वरस्तापप्रदरोगविशेष इव विविधाऽत्युमभवतापप्रदत्वाज्ज्वरस्तस्य शान्तिरुप. शमः प्रयोजनं यस्य तादृशम् , तादृशज्बरशमनमित्यर्थः । यो हि पूर्वजेभ्यो महद्भ्यः स्वस्य हीनत्वं भावयति स न स्वं प्रशंसति, स्वस्य हीनत्वबुद्ध्योतमत्वगर्वाऽभावात्कारणाभावात् । यदुक्तम्" उपर्युपरि पश्यन्तः सर्व एव दरिद्र ते । अधोऽवः पश्यतः कस्य महिमा नोपचीयत इति"। तस्मादात्मप्रशंसां जिहासु महतः पूर्वजान् । भावयेत्, न तु स्वतो हीनानिति भावः ॥ ४ ॥
१३