________________
ર
भद्रङ्करोदयाख्यव्याख्या विभूषिते:
सम्बध्यते । पातयन्ति-मज्जयन्ति, भवोदधाविति सम्बध्यते । तदेतत्, अहो १ यत एवोद्धारस्तत एव पात इति पदार्थधर्मवैचित्र्यमाश्चर्यकरमित्यर्थः उदधिस्थो हि स्वरज्जुं स्वयं गृह्णाति नतु परे गृह्णन्ति चेतदाऽऽकर्षणाऽसम्भवान्मज्जनमेव तस्य, एवं स्वस्य गुणाः स्वय-मेवस्तुतिमुखेन गृहीता गर्वायनुषङ्गात्क्षयाद्वा कर्मबन्धप्रयोजकत्वाद्भवंवर्धयन्तीति भवे पातयन्तीत्यर्थः । यदुक्तम् " न सौख्यसौभाग्यकरा नृणां गुणाः स्वयं गृहीताः सुदृशां कुचाविव । परै गृहीता द्वयमेव तन्वते न तेन गृह्णन्ति बुधा निजान् गुणानि "ति सुष्ठुक्तं श्रेयो मस्येत्यादि नेत्यात्मप्रशंसा हेयैवेति भावः । अत्र यदेव हितं तदेव पातसाधनत्वादहितमिति विरोधोऽहो इत्यनेन द्योत्यते । तत्परिहारस्तु स्वपररूपविषयभेदादिति विरोधाभासोऽलङ्कारः || ३ |-- नन्वात्मप्रशंसायाः कस्त्यागोपाय इति शिष्यजिज्ञासां
पूरयन्नाह-
उच्चत्वदृष्टिदोषोत्थस्वोत्कर्षज्वरशान्तिकम् ।
पूर्व पूरुषसिंहेभ्यो भृशं नीचत्वभावनम् ॥ ४ ॥
उच्चत्वेत्यादि । पूर्वपूरुपसिंहेभ्यः - पूर्वे चिरन्तना ये पूरुषा नराः सिंहा इव श्वापदेषु गुणपराक्रमप्रतापादिभिः श्रेष्ठाः सिंहाः पूर्वपूरुषसिंहास्तीर्थं क्रूरगणधर चकिप्रभृतयस्तेभ्यः, तानपेक्ष्येति यावत् । "ह्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरा" इत्यमरः । भृशम् - अतिशयेन, नतूपचारार्थमेवेति भावः । नीचत्वभावनम् -नीचत्कं हीनता, अपकर्ष इत्यर्थः । तस्य यद्भावनम् - " तेऽति महान्तः