________________
शानसारे अनात्मप्रशंसाऽष्टकम्
लामाऽलाभप्रकारेण पुनराह
आलम्बिता हिताय स्युः परैः स्वगुणरश्मयः । अहो ? स्वयंगृहीतास्तु पातयन्ति भवोदधौ ॥३॥ __ आलम्बिता इत्यादि । भवोदधौ-भवः संसार एव तत्स्वर्जनै दुस्तरत्वादुदधिः समुद्र इवोदधिस्तत्र, तद्विषये इत्यर्थः । स्वगुणरश्मयः-स्वस्याऽऽत्मनो गुणा ज्ञानादय एवोद्धारसाधनस्वाच्च रश्मयो वरगाः, उपलक्षणत्वाद्रज्जुमात्रम् , तदिव रश्मयस्ते, परैः-इतरैर्जनैः, आलम्बिताः-स्तुतिमुखेन हस्तेनेव गृहीताः, श्रेयःसाधनत्वात्स्वेष्वाहिता वा, धृताश्च, हिताय-कल्याणाय, उद्धारात्मकेष्टाय च, स्युः-भवेयुः । अर्थात्स्वस्य परेषां चेति लभ्यते । यथोदधौ पतितस्य करादिस्थरज्जु परे गृहन्ति तदा -तस्योद्धारः, ते हि रज्वा तमुद्धरन्ति । अथवा स्वयं तीरस्थस्य करस्थां रज्जुमुद धिस्था एव गृह्णन्ति चेत्तदा तेषां तया रज्या कृत्वाऽऽकर्षणादुद्धारो भवति । तया स्वस्य ज्ञानादिगुणान् भवमग्नस्य चेत्परे स्तुवन्ति, तदा तस्य गुणैरुत्कृष्टैरेव भाव्यम् , नाऽन्यथा परैस्तत्स्तुतिरिति गुणोत्कर्षात्तस्य भवादुद्धारः। अथवा भवस्थाः परे एव चेत्स्वस्य मुन्यादे गुणानुत्कृष्टत्वाद्धेतोः स्वेष्वादधति तदा तेषां तद्गुणमहिम्ना मवादुद्धारो भवतीत्युभयथाऽप्यों बोध्यः । तु विशेषे भेदे च । स्वगुणस्य स्वयं ग्रहणे पूर्वतो मेदो विशेषश्चेत्यर्थः । तदेवाह-अहो इत्यादिना । स्वयम्-आत्मना, गृहीताः-आलम्बिताः, स्तुतिमुखेनोपात्ता वा, स्वगुणरश्मय इति