SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते कल्याण हेतुज्ञानाद्यात्मक वृक्षस्य, "कल्याणं श्वोवसीयसं श्रेयः " इति, " शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिरि "ति च हैमः । " मूलानि - बुध्नाः, द्रुमस्य बुध्ना इव श्रेयस आधारत्वान्मूलरूपाणि, " मूलं बुधनोंऽह्रि नाम चे "ति, हैमः । पुण्यानि - शुभहेतु कर्माणि सुकृतानि कर्म, स्वोत्कर्षाऽम्भःप्रवाहतः - स्वस्याऽऽत्मनो य उत्कर्ष उत्तम गुणवैशिष्ट्यात्मकं महत्त्वम्, तेषां तादृशानां पुण्यानामुत्कर्षोऽतिशयः, स्वसम्बन्धिगुणादिगर्वो वा स एव कीर्त्तनादिना स्रवणशीलत्वादम्भो जलं तस्य प्रवाहतः सततं पारम्पर्येण प्रवृतेः, कीर्त नात्मकधारातः, तादृशगर्व एव गत्वरत्वाद्धाराप्रवाहस्ततो वा, हेतोः, प्रकटीकुर्वन्- अप्रकटं मृदादिच्छन्नमप्रख्यातं च प्रकटं मृदावाकरणेन लक्षितं ख्यातं च कुर्वन् फलम् - दुमप्रसव आम्रादिकं निर्वाणसुखं च समवाप्स्यसि किम् ? - प्राप्स्यसिकिम् !, काक्वा नैव प्राप्स्यसीत्यर्थः । प्रवाहतो मृदोऽपगमान्मूलस्य प्राकट्यात्तेन पोषणाऽलाभात्क्रमशो वृक्षः शुष्यतीति फलं न ददाति; तथाssत्मप्रशंसया पुण्येषु ख्यातेषु तत्क्षयाज्ज्ञानादेरपि तानवान्निर्वाणा- द्यलाभः, यदुक्तम् " धर्मः क्षरति कीर्त्तनादि "ति । तस्मादात्मप्रशंसाऽवश्ययेति भावः । यद्वा किं फलं कुत्सितं फलमाम्रादिकं परिणामं च समवाप्स्यसीत्यर्थः । यस्य हि वृक्षस्य मूलमनावृत्तं तस्य - चारुतया पोषणाऽप्राप्तेः फलं दूषितं जायते, तथाऽऽत्मप्रशंसया - पुण्येषु प्रकटितेषु निमित्तशैथिल्याज्ज्ञानादिषु मन्दीभूतेषु कर्मबन्धादिरूपमशुभफलमेव जायते इति कृतमात्मप्रशंसयेति भावः ॥ २ ॥ शिष्यप्रबोधायोक्तमेवाऽर्थ गुणानां परैः स्वयं च ग्रहणस्व -१९० - A
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy