SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे अनात्मप्रशंसाऽष्टकम् कूतम् । ननु तर्हि गुणिभिः सा कार्येति चेतदपि नेत्याह-गुणैरेवेत्यादि । चेत्-यदि, गुणैः - उक्तप्रकारैराध्यात्मिकै वश्विोत्तमधर्मैः पूर्ण: - समग्रः, एवकारेण गुणहीनताव्यवच्छेदः । तदाऽपि, आत्मप्रशंसया - आत्मश्लाधया, कृतम् - पर्याप्तम्, गुणसद्भावेऽप्यात्मप्रशंसा न कार्येत्यर्थः । सतां गुणानां स्वयमेव प्रकाशा - ल्लोकानां स्वयमेव ज्ञानात्तव कीर्तनं नाऽऽवश्यकम् । ख्यातये हि गुणाः कीर्त्त्यन्ते, सा च स्वयमेव गुणानां तथास्वाभाव्यादेव जातेति तदर्थं श्रमो निष्फलत्वान्न विधेय एव । यदुक्तम्66 यस्य ये च गुणाः सन्ति प्रख्यातिं यान्ति ते स्वयम् । न हि कस्तूरिकामोदो वचनेन विभाव्यते" इति भावः । गुणानां सत्त्वेSसत्त्वे वोभयथाऽप्यात्मप्रशंसा हेयैव निष्फलत्वादनिष्टानुबन्धिस्वाच्चेति तात्पर्यम् । कृतमात्मप्रशंसयेति द्विरुक्तिरात्मप्रशंसायाः सर्वथाऽप्यवश्य हेयत्वसूचनार्थमिति बोध्यम् ॥ १ ॥ १८९ " ननु ये गुणाः ख्यातास्तेषां कीर्त्तने न काऽपि हानिः सद्भूतार्थकीर्तनादित्यात्मप्रशंसा किमिति न कार्येति शिष्याऽऽशङ्कां निराचिकीर्षुराह श्रेयोमस्य मूलानि स्वोत्कर्षाऽम्भःप्रवाहतः । पुण्यानि प्रकटीकुर्वन् फलं किं समवाप्स्यसि १ ॥ २ ॥ श्रेयोमस्येत्यादि । श्रेयोद्रुमस्य - श्रेयः कल्याणं निर्वाणं च तद्धेतुर्ज्ञान चारित्रादिगुणोऽपि कारणे कार्योपचाराच्छ्रेयस्तदेव पुण्यमूलत्वाच्छाश्वताऽखण्ड (नन्तसुख फलप्रदत्वाच्च द्रुमो वृक्षस्तस्य
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy