________________
भद्रकरोदयाख्यव्याल्याविभूषिते
यशोभद्रविजयगणिवरशिष्य-पन्यासश्रीशुभकरवित्रमगणिविरचितायां भद्रकरोंदवाख्यायां व्याख्यायां निर्भयाऽष्टकं नाम सप्तदशाऽटकम् ॥ १७ ॥
॥ अनात्मप्रशंसाऽष्टकम् ॥१८॥ उक्तरीत्या ज्ञानचारित्रसम्पन्नो निर्भयोऽपि स्वगुणान् कीर्तयन् गर्वाद्यनुषजात्पततीत्यात्मप्रशंसा सँधेरेव त्याज्ये ते शिष्यमबोधायाऽनात्मप्रशंसाऽष्टकं विवक्षुरादावात्मप्रशंसाया उभयथाऽपि नैष्फस्यमाह
गुणैर्यदि न पूर्णोऽसि कृतमात्मप्रशंसया । गुणैरेवाऽसि पूर्णश्चेत्कृतमात्मप्रशंसया ॥१॥
गुणैरित्यादि । यदि-चेत्, गुणैः-दर्शनज्ञानादिभिराध्या'स्मिकैर्नृपत्वच क्रित्वादिभिर्वाह्येश्चोत्तमधगुगपदबौध्यैः प्रसिद्धविशेषणैः पूर्णः-समग्रः, प्राप्त करेस्तैः समन्वित इति यावत् । न-नैव, असि-भवसि, यदी तेबलात्तदेति लभ्यते, आत्मप्रशंसया-मात्मनः स्वस्य प्रशंसया गुणानां कीर्तनेन, आत्मश्लाघयेत्यर्थः । कृतम्-पर्याप्तम् , आत्मप्रशंसा न कार्येत्यर्थः । गुणहीनो ह्यात्मानमहमेवमुत्कृष्टगुण इत्यादिरूपेग प्रशंपन् लोके "ऽयं मिथ्याऽऽत्मप्रशंसक " इति निन्धतेऽत्रमान्यते उपहस्यते चेति समधिकाऽनि. ष्टानुबन्धित्वादात्मप्रशंसा त्याज्य वेत्याशयः । यत्पशस्यते तदेव न भवती ते स्वमिथ्याप्रशंसा लोके निन्दादिनिमित्तमसस्म वृत्त्यात्मकतया दुरितानुबन्धिनीचेति गुणाऽभावे सा हेयवेत्या