SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ शानसारे निर्भयाऽष्टकम् चिते परिणतं यस्य चारित्रमकुतोभयम् । अखण्डज्ञानराज्यस्य तस्य साधोः कुतो मयम् १ ||८|| इति महोपाध्याय श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे निर्भयाष्टकं नाम सप्तदशमष्टकम् | ૨૮૭ 1 चित्ते इत्यादि । अखण्डज्ञानराज्यस्य - अखण्डं सम्पूर्ण मि-· थ्यात्वादिशत्रुभिरनुपहतमनुपद्रुतं निरन्तरं च ज्ञानं सम्यग्ज्ञानरूपं स्वस्वामिभावाद्राज्यं यस्य स तादृशस्तस्य, मिथ्यात्वाद्यदूषितसम्पूर्ण निरन्तरितसम्यग्ज्ञानवत इत्यर्थः । यस्य - यादृशस्य साधोः, - चित्ते - मनसि, अकुतोभयम् - न विद्यते कुतोऽपि भयं यस्मिंस्तदकुतोभयं भयस्थानत्यागाद्भयविवर्जितम्, चारित्रम् - संयमः परिणतम्-वृत्तिरूपतामापन्नम्, परिपक्वं च । ज्ञानफलं विरतिरिति सम्यग्ज्ञानाद्विरतिलाभः, विरतौ च सत्यां गोप्यादिभयस्थानाऽभावा: मयाऽभाव इतिभावः । तस्य - तादृशस्य सम्यग्ज्ञानिनश्चारित्रवतः, साधोः - मुनेः, सम्यग्ज्ञानी चारित्रवांश्च मुनिरेव भवतीतिभावः । कुतः - कस्मात् किमवधीत्यर्थः । भयम् - भीतिः, काक्वा न कुतोऽपि भयमित्यर्थः । ज्ञानिनोऽकुतोभयचारित्र सम्पन्नस्य कारणाSभावाद्विरोधिसद्भावाच्च न भयमिति ज्ञानी चारित्रवांश्व निर्भय इति भावः । एवं च ज्ञानं चारित्रं च निर्भयत्वस्थानमिति तात्पर्यम् । तस्मान्निर्भयत्वलाभाय ज्ञानं चारित्रं चेति द्वयमेवाऽऽराधनीयं नाऽन्यथा भयाभाव इति हृदयम् ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृ - कविरत्नपन्यास प्रवर-श्री-
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy