________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
नित्ये च स्वत्वनित्यत्वबुद्धयोऽज्ञानिनः, तूलवत्-तूलं पिचुस्तद्वत् , " तूलकं पिचुरि"ति हैमः । लघवः-अल्पसाराः, अत एक, भयानिलैः-भयानि पूर्वोक्तप्रकाराणि, तान्येव भ्रमणसा घनत्वाद. निला वायवस्तैः कृत्वा, अभ्रे-आकाशे, लोकाकाश इति यावत् । भ्रमन्ति:-पुनः पुनर्जन्मग्रहणादितस्ततो गतागतात्मकमुड्डयनं प्राप्नुवन्ति । अनिलैस्तूलस्याऽल्पसारत्वादभ्रभ्रमणं प्रसिद्धमेव, तथा मोहपरवशा भयाक्रान्ता म्रियन्ते, मोहात्समुपार्जितकर्मवशाच लोकाकाशे भ्रान्ता जन्म गृह्णन्ति चेति तात्पर्यम् । तुर्विशेषे भेदे च । ज्ञानिनस्ततो विशेषो मेदश्चेत्यर्थः । तदेवाह-नैकमित्यादि । ज्ञानगरिष्ठानाम्-ज्ञानेन सम्यग्ज्ञानेन कृत्वा गरिष्ठा गुरुतराः, दृढाऽनल्पसारा इत्यर्थः, तेषाम् , तैः-भयानिलैः, एकम् -अल्पम् , लक्षण. याऽल्पसारम् , एतेन कम्पयोग्यता प्रतिपादिता, रोम-लोम, अपिना सारवतः स्वस्य तु कथैव केति स्च्यते । उपलक्षणत्वादोमवदतिसूक्ष्म एको जीवप्रदेशोऽपीत्यर्थः । न-नैव, कम्पते-चलति । गुरुतरो हि वायुना न चाल्यते इति प्रसिद्धम् । ज्ञानेन मोहनाश• पूर्वककर्मनाशादाश्रयाऽभावेन भयाऽभावात्कारणाऽभावाजन्माद्यभावान्न ज्ञानिनो लोकाकाशभ्रमणम् , प्रत्युत मोक्षलाभास्थिरपरमपदाऽवस्थानमेवेति ज्ञानेन मोहनाशपूर्वकनिर्भयत्वलाभात्परमपदावाप्तिरिति तात्पर्यम् । अज्ञानिनो भयं तत्कृतोऽनर्थश्च न तु ज्ञानिन इति निष्कर्षः ॥ ७ ॥
ननु निर्भयत्वस्य किं स्थानमिति शिष्यजिज्ञासां समाधिस्सुरुपसंहरति