________________
शानसारे निर्मयाऽष्टकम्
दुर्भद्यत्वान्मोहास्त्रधातक्षमत्वाच वर्म कवचं तत् , “ समाहो वर्म कइटः । जगरः कवचं दंश " इति हैमः । विर्भात-धारगति, वर्मणाऽस्त्रस्येव ज्ञानेन मोहस्य प्रतीकार इति भावः । तस्य-मोहाख. प्रतीकारप्रगुणज्ञानवर्मविभूषितस्य, कर्मसङ्गरकेलिषु-कर्मभिरनर्थहेतुत्वाच्छत्रुभि ज्ञानावरणीयादिभिर्यः सगरो युद्धम् , कर्मनाशनाय सपःसंयमादिव्यापाराः, तद्रूग याः केलयः क्रीडास्तासु । एतेन ज्ञानिनः कर्मनाशः केलि वत्सुकर इति ध्वन्यते । भी:-भयम् , का-काक्वा न क्वापीत्यर्थः । वा-तथा, भङ्ग:-कर्मणः प्राबस्यात्स्वस्य तदधीनस्वरूपः पराजयः, का-काक्वा न क्यापीत्यर्थः । युद्धे झवर्मण एवाऽस्त्रमेव भयहेतुः पराजयहेतुश्च, ज्ञानिनस्तु ज्ञानेन मोहनाशान्न भयहेतुः पराजयहेतुर्वा किमपि क्वापीत्यर्थः । कर्माणि हि मोहोद्भावनेन जनान् वशगान् करोति, ज्ञानी तु ज्ञानेन मोहं विनाश्य कर्माण्यपि नाशयतीति स निर्भयो विजयी चेति ज्ञानेन मोहनाशद्वारा निर्भयत्वं कर्मक्षयरूपमुक्तिश्चेति ज्ञानेन निर्भयत्वं साध्यमिति तात्पर्यम् । परम्परितरूपकाऽलङ्कारः ॥ ६ ॥
शिष्यस्य 'ज्ञानेनाऽवश्यमेव निर्भयत्वमज्ञानिन एव च भय. हेतुरनर्थ " इत्येवं दृढा धारणा यथा स्यादित्यज्ञानिनो भयं ज्ञानिनश्च निर्भयत्वं विवृण्वन्नाह
तूलवल्लघवो मूढा भ्रमन्त्यभ्रे भयाऽनिलैः। नैकं रोमाऽपि ते निगरिष्ठानां तु कमाते ॥७॥ तुलेत्यादि । मूढाः-मोहाश्रया अज्ञातवस्तुयाथाम्या अस्वेऽ.