________________
भद्रकरोदवाख्यव्याख्याविभूषिते
सदा-तर्हि, आनन्दचन्दने-मानन्द आत्मानन्दो भक्तापामहारकतया शाश्वताऽखण्डसुखात्मकशैत्यप्रदत्वाच्च चन्दनं श्रीखण्ड. द्रुम इव, तत्र, भयसाणाम्-भयानि गोप्यादिप्राकट्यादिभयानि, तान्येव ज्ञानदृष्टिमयूरीनाश्यत्वादानन्दरोधकत्वाच सर्पा इव, तेषाम्, वेष्टनम्-निजभोगेनाऽऽवरणम् , पक्षे तदाक्रान्तत्वमित्यर्थः । ननैव, भवतीति शेषः । यथा यत्र वने मयूरी सञ्चरति, तत्रत्यचन्दनादीन् सर्पा मयूर्या स्वभक्षणादिभयान्न वेष्टयन्ति, प्रत्युत कुतोऽप्यन्यत्रैव गच्छन्ति, तथा मनसि सम्यग्ज्ञाने विलसमाने गोप्याद्याश्रयाऽभावाद्भयानि नाविर्भवन्त्येवेत्यर्थः । सम्यग्ज्ञानेन वस्तुयाथात्म्यपरिच्छेदान्मोहापगमाद्धेयस्य हानादुपादेयस्य चोपादानान्नित्यशुद्धसच्चिदानदात्मकस्वरूपाऽअभासाच भयस्थानाऽभावा. निर्भयत्वं सिद्ध्यतीति भावः । ज्ञानिनो न भयमिति यावत् ॥ ५ ॥
शिष्यस्य दृढपयोधाय पुननिस्य मोहनाशद्वारा निर्भयत्वसाधकत्वमाहकृतमोहाऽस्त्रवैफल्यं ज्ञानवर्म बिभर्ति यः । का भीस्तस्य कत्र वा भङ्गः कर्मसङ्गरकेलिषु ? ॥ ६ ॥
कृतेत्यादि । य:-यादृशः पुण्यशाली जनः, कृतमोहाऽत्रवैफल्यम्-कृतं मोहोऽस्त्रे स्वबुद्धिरतस्मिस्तत्त्वप्रहरूपोऽविवेकः, स एव वस्तुयाथात्म्यावभासात्मकशरीराङ्गोपाङ्गभूतसम्यग्दर्शनादिधातकत्वादत्रं प्रहरणम् , तस्य वैफल्यं मोघता येन तादृशम् , मोहासप्रतीकारप्रगुणमित्यर्थः । ज्ञानवर्म-ज्ञानं सम्यग्ज्ञानमेव दृढत्वा