________________
ज्ञानसारे निर्भयाऽष्टकम्
१८३
ब्रह्मास्त्रं तमाश इत्यपिध्वन्यते । सङ्ग्रामशीर्षस्थ ः- सङ्ग्रामो युद्धं तस्य शीर्षमिव प्रकृष्टत्वाच्छीर्षम् तुमुलं युद्धमित्यर्थः । तत्र तिष्ठतीति सः । यद्वा सङ्ग्रामस्य शीर्षस्थः पुरस्सरः, नागराट्नागो गजः स चाऽसौ राट् राजा च सः, गजेन्द्र इत्यर्थः । स इव, " मतङ्गजो गजो नाग " इत्यमरः । नैव, बिभेति - भयमाप्नोति । बथा रणमूर्धनि स्थितो गजेन्द्रो तीत्रे प्रहारे सत्यपि न बिभेति सैन्यं नाशयति च तथा मुनिरपि सम्यग्ज्ञानेन मोहं नाशयति, निर्भयश्च भवति । मोहे सति गोप्यादिभावाद्भयाऽवसरः । मोहाङभावे च गोप्यादेरप्यभावान्न भयाऽवसर इति निर्भयो भवतीति भावः । सम्यग्ज्ञानेन मोहनाशद्वारा निर्भयत्वं साध्यमिति हृदयम् ॥ ४ ॥
शिष्यस्य श्रद्धा हढा यथा स्यादिति ज्ञानेन निर्भयत्वलाभं प्रकारान्तरेण वर्णयन्नाह—
"
मयूरी ज्ञानदृष्टिश्चेत्प्रसर्पति मनोवने । वेष्टनं भयसर्पाणां न तदाऽऽनन्द चन्दने ॥ ५ ॥
मयूरीत्यादि । चेत् यदि, मनोवने-मनोहृदयं ज्ञानमयूरादिसञ्चारयोग्यत्वादानन्द चन्दनादिपरोह भूमित्वाच्च वनमित्र वनम् तत्र, मयूरी - मयूरीव मयूरी, भयसर्वाऽपहारकतया केकिनीतुल्या, ज्ञानदृष्टि :- ज्ञानमात्मतदितरयाथात्म्यग्राहि सम्यग्ज्ञानं तदेव दृष्टि-रिव साक्षादिव वस्तुयाथात्म्य परिच्छेदकत्वाद्दृष्टिः, सा, ज्ञानाख्या दृष्टिरित्यर्थः । प्रसर्पति- इतस्ततः सञ्चरति पुनः पुनः प्रादुभवति, यदि मनसि सततं सम्यग्ज्ञानपरम्परोदेतीति निष्कर्षः ।