________________
१२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
बोध्यम् । एवं सति, भयेन -भीतिरूपेण कर्त्रा मुनिविषये इत्यर्थालभ्यते । कत्र- कुत्र, स्थेयम् - स्थितिः कार्या, काक्वा न क्वापीत्यर्थः । यो हि सम्यग्ज्ञानेन वस्तुनो याथात्म्यं पश्यति, सोऽनिटाsनुबन्धितया लौकिकान् विषयान् त्यजति, श्रेयस्तया स्वस्वभाव एवाऽवतिष्ठते । भयस्थानानि च चत्वारि गोप्यस्थाप्य हेय देयानि । गोप्ये हि प्राकट्यभयं स्थाप्ये अपहारादिभयं हेये ग्रहणभयं देये चाडदानभयम् । मुनेश्च न गोप्यादिकं किञ्चित्क्वाऽपि । तदेकं स्थानाभावादेव मुने र्न भयमिति ज्ञानी मुनिरेव निर्भयोऽन्यस्तु भयस्थानसत्त्वाद्भीत एवेति ज्ञानेन निर्भयत्वं साध्यमिति भावः ||३|
शिष्यप्रबोधार्थं ज्ञानेनैव निर्भयत्वं साध्यमिति पुनराह - एकं ब्रह्मास्त्रमादाय निघ्नन् मोहचमूं मुनिः । विभेति नैत्र सङ्ग्रामशीर्षस्थ इव नागराट् || ४ ||
एकमित्यादि । मुनिः - सम्यक्त्वसम्पन्नः साधुः, एकम् - व्यप्रतिविधेयत्वादमोघत्वाच्च सर्वास्त्रेषु प्रधानं केवलं च ब्रह्माखम्स्वनामख्यातं ब्रह्मास्त्रमिव ब्रह्म शुद्धसच्चिदानन्दमय आत्मा, लक्षणया तत्स्वरूपप्रकाशकं सम्यग्ज्ञानम्, मोहचमूनाशकत्वात्तद्रूपमस्त्रं ग्रहरणम् आदाय गृहीत्वा, मोहचमूम् मोहो विषयेषु मूर्छा स एवाऽऽकामकत्वाद्विनाश्यत्वात्प्रचुरत्वाच्च चमूरिख, मोहस्य चमूः सेना, विविधप्रकारो मोहो वा, ताम्, निघ्नन् - नाशयन्, सम्बज्ञानेन कृत्वा विषयव्यासङ्गं त्यजन्निति यावत् । ब्रह्मास्त्रेण चमू नाश: प्रसिद्ध एवेतिभावः । मोहचम्बा अतिप्रबलत्वान्न विना
"