________________
शानसारे निर्भयाऽकम् निर्भयेन भवितव्यं चेत्याशयः ॥ २॥
कथं ताशनिर्भयत्वं साध्यमिति शिष्यजिज्ञासां समादधदाहन गोप्यं क्वाऽपि नाऽऽरोप्यं हेयं देयं च न चित् । का भयेन मुनेः स्थेयं ज्ञेयं ज्ञानेन पश्यतः ॥ ३ ।।
न गोप्यमित्यादि । मुनेः-सम्यक्त्वशालिनः परापेक्षां विहाय खभावाऽद्वैतगामिनः, ज्ञानेन-सम्यग्ज्ञानेन, ज्ञेयम्-प्रमेयम्, मात्मनस्तद्भिन्नानां पौद्गलिकानां दारागारादीनां च पारमार्थिक नित्याऽनित्येष्टाऽनिष्टानुबन्धित्वादिरूपं स्वरूपमित्यर्थः । ज्ञेयज्ञानं हि ज्ञेययाथात्म्यज्ञानमेवेति बोध्यम् । पश्यतः-जानतः सतः, क्वापिशत्रौ मित्रे प्रामाण्ये दिवा निशि वा, गोप्यम्-अप्रकाशनीयम्, स्वीयमपकर्म धनादिकं वा किमपीत्यर्थाल्लभ्यते । न-नैव, मुने. नेिन वस्तुपरमार्थाऽवलोकनाद्विषयत्यागात्स्वभावाऽद्वैतगामित्वाच तादृशकर्मादेरभावात्स्वभावस्य चारित्रस्य वा प्राकवेऽपि क्षत्यभावाचेति भावः । तथा. आरोप्यम्-स्थापनीयम्, न्यासरूपेण किमपि सुवर्णादिकं काऽपीत्यर्थाल्लभ्यते । न-नैव, नश्वरत्वेन तत्यागादभावात्स्वस्वरूपात्मकस्य च धनस्य रत्नत्रयस्य च स्थापनाऽयोग्य. साच्चेति बोध्यम् । तथा, क्वचित्-कुत्राऽपि, हेयम्-त्याज्यम्, न-नैव, किमपि निषिद्धं कर्म वस्तु वा, हेयस्य सर्वस्यैव हानात्स्वभावस्य रत्नत्रयस्य चाऽहेयत्वादिति बोध्यम् । देयम्-दातव्यम्, चेन कचन्नेति सम्बध्यते । किमपि धनादिकं हि दीयते, मुनेछ निष्परिग्रहत्वात्त भावात्स्वावमावस्य रत्नत्रयस्य चाऽदेयत्वादिति