SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिले भवसौख्येनेत्यादि । भवसौख्येन-भवस्य भवे विषयादि. कम्यवादवसम्बन्धि यत्सुखमेव सौख्यं तेन, आत्मस्वभावेतरघोद्गलिकसक्चन्दनाऽानादिजनितसुखेनेत्यर्थः । भरिभयज्वलनभस्मना-भूरीणि प्रचुराणि यानि भयानि तादृशसुखनाशमरणादिप्रयुक्ता भीतयस्तान्येव तादृशसुखेन्धनज्वालनप्रगुणत्वाज्ज्वलनो वह्निः स्तत्कृतं यद्भस्म भसितं तद्रूपेण, यथा वहिना दग्धं चन्दनादिप्रभृत्युः चमकाष्ठाद्यपि भस्मरूपेण परिणतं निःसारं तथा भयाऽनुविद्धं सुखममि, भयाऽनुभवस्य प्राबल्यात् । सुखानुभवो मन्दीभूतो निःसार इति रूपकेण ध्वन्यते । “भीतिज्ञैः साध्वसं भयमि"ति, “ अग्नि वैश्वा. नरो वह्नि वीतिहोत्रो धनञ्जयः। कृपीटयोनिर्बलन" इति "भूति., भसितमस्मनी "ति चामरः । किम् ?-काक्वा न किमपि प्रयोजनमित्यर्थः । तादृशसौख्येन कृतमिति यावत् । स एव सुखाऽनुभवो यः शुद्धः, भवसुखाऽनुभवस्तु तन्नाशादिभयादिभिस्तदाभासीकृत इति वहिज्वालितेन्धनभस्मवनिःसार इति हेय एवेति हृदयम् । ननु तर्हि किं सुखं सारवदुपादेयं चेति चेतत्राह-सदेत्यादि । भयोज्झितज्ञानसुखम्-भयेनोक्तप्रकारेणोज्झितः शून्यस्तस्य यज्ज्ञानमहं निर्भय इत्येतादृशं ज्ञानं तस्य तज्जन्यत्वात्तत्सम्बन्धि यत् मुखं तत्, निर्भयत्वप्रकारकज्ञानजन्यसुख मित्यर्थः । निर्भयत्वे हि सति मनःस्वास्थ्यम्, ततश्चाऽनुपहतं सुखमिति बोध्यम् । एवकारेण भवसौख्यं व्यवच्छिद्यते । सदा-सर्वदा, कालत्रयेऽपि सर्वास्ववस्थासु च, विशिष्यते-प्रशस्यते, तस्य केवलसुखानुभव. रूपत्वादिति बोध्यम् । अतस्तदेवोपादेयम् , तल्लाभो यथा स्यादिति
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy