SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०२ भद्रङ्करोदयाख्यव्याख्याविभूषिते अस्याम्-उक्तप्रकारायां भ्रमवाट्याम्, सुखाशया-सुखस्य शर्मण माशयेच्छया, सुखं लिप्सुरित्यर्थः । न-नैव, शेते-स्वपिति, सुप्त इव लीनो भवतीत्यर्थः । न तामाश्रयतीति यावत् । नहि कोऽपि शुक्तस्तत्त्वज्ञस्तत्र रजतबुद्ध्या प्रवर्तते । तथा यत्र सुखादिभ्रमो न तु सुखं तत्र तज्ज्ञस्तत्त्वदृष्टिः सुखाशया न प्रवर्त्तते । तत्वज्ञत्वस्याऽन्यथाऽनिर्वाहादिति भावः ॥ २ ॥ ननु नहि योगिनोऽलोके भवन्ति, लोके च विषयसम्पर्कः केषामपि दुष्परिहरः । एवञ्च तादृशसम्पर्कजो भ्रमस्तत्त्वदृष्टीनामपि मवेदेवेति शिष्यशङ्कामच्चिच्छित्सुराह ग्रामारामादि मोहाय यदृष्टं बाह्यया दृशा । तत्वदृष्ट्या तदेवाऽन्तर्नातं वैराग्य पम्पदे । ३ ।। प्रामारामादीत्यादि । बाह्यया-बहिर्विषयप्रवणया प्रामारामादौ स्वत्वसुखादिग्राहिण्या बहिर्भवया चर्मचक्षुरूपया च, दृशा-मत्या नेत्रेणच, दृष्टम्-विषयीकृतं सत् , यत्-यादृशम् , ग्रामारामादिग्रामः प्रसिद्धं ग्रामनगरादि, आराम उपवनं च, आदिना स्त्रीपुत्रसुवर्णादि च, मोहाय-अस्वेऽसुखादिरूपे च स्वत्वसुखादिविकल्पात्मकममाय, जायते इति शेषः । तत्-तादृशमोहजनकप्रामारामायेव, तच्चदृष्टया-तत्त्वं याथात्म्यम् , इदमस्वमसुखमनित्यमनिष्टानुबन्धि चेत्येवं बहिर्वम्तुयाथात्म्यस्य परिच्छेदिकया दृष्ट्या ज्ञानेन, सम्यग्ज्ञानेनेत्यर्थः । अन्तर्भातम्-अन्तर्मनसि नीतं विचारितं सत् , दृष्टमित्यर्थः । वैराग्य सम्पदे-विच्छिन्नो रागो विरागः,
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy