SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्या विभूषिते यशोभद्रविजयगणिवर - शिष्य-पन्यास- श्रीशुभकरविजयगणि-विरचितायां भद्रकरोदयाख्यायां व्याख्यायां मध्यस्थाऽष्टकं नाम षोडशमष्टकम् ॥ २६ ॥ || निर्भयाऽष्टकम् ॥ १७ ॥ १७८ नन्वस्तु मध्यस्थ दृष्ट्या विवेकलाभस्तेन किमिति शिष्य जिज्ञासां समाधातुं विवेकिनो ज्ञानचारित्रसाहाय्येन निर्भया भवन्तीति निर्भयाष्टकं प्रस्तुवन् कस्य न भयमित्याह - यस्य नास्ति पराsपेक्षा स्वभावाऽद्वैतगामिनः । तस्य किं न भयभ्रान्तिक्लान्ति सन्तानतानवम् १ ॥ १ ॥ यस्येत्यादि । यस्य - यादृशस्य विवेकिनो मध्यस्थस्य, स्वभावाऽद्वैतगामिनः - स्वस्याऽऽमनो यो भावः स्वरूपं शुद्धसच्चि - दानन्दात्मकं तस्य तन्निष्ठत्वात्तत्सम्बन्धि यद् द्वयोर्भावो द्विता सैव द्वैतं भेदो न द्वैतमद्वैतमभेदः, तादात्म्यमित्यर्थः । स्वभावेन सह तादात्म्यमिति यावत् । स्वभावलीनतेति सारार्थः । तद्गच्छत्यनुभवतीत्येवंशीलस्तस्य, स्वभावमग्नस्येति निष्कर्षः । पराऽपेक्षापरः स्वभावादन्यो देहाऽगारदारादि लौकिक सुखजन करवेनेष्टो विषयस्तस्य तद्विषयिण्यपेक्षाssकाङ्क्षा, लौकिक सुख लाभार्थमिति प्रस्तावाल्लभ्यते, नास्ति न विद्यते । न भवति वा । वस्तुस्थितिरेवैषा, विषय विरागं विना स्वभावमग्नताऽसम्भवात् । स्वभावमग्नस्य च विषयेहाभावादिति बोध्यम् । तस्य तादृशस्य विषयविरक्तस्य स्वभावलीनस्य पुण्यशालिनो जनस्य, भयभ्रान्तिक्लान्तिसन्तान
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy