SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते स्याद्वाददर्शनमेव मध्यस्थदर्शनमित्यत एव तदाश्रयाम इति हृदयम् । मध्यस्थया दृशा परीक्षया यद्युक्तं तदाश्रीयते । तादृशशेदस्मदागमस्तत्राऽस्माभिः किं कर्त्तव्यम् ! । मम सद्वस्तुग्रहमात्राऽऽरादिति भावः ॥ ७ ॥ ननु मध्यस्थानामेकैव पथा भाव्यम् , यदुक्तम्-" विपक्षस्ते विरक्तश्चेत्स त्वमेवे "ति, भवता चोक्तम् -'' मनोवत्सो युक्तिगीं मध्यस्थस्याऽनुधावती "ति । न च साध्ये समानेऽपि तत्साधनपन्यानो विविधा लोके इव शास्त्रेऽपि विविधा इति नाऽसमञ्जसम् । अत् एवोकम् “ विभिन्ना अपि पन्थानः समुद्रं सरितामिव । मध्यस्थानां परं ब्रह्म प्राप्नुवन्त्ये कमक्षयमि "ति वाच्यम् । एवमपि तेषु तारतम्य सम्भवाकतमो हिततम इति शिष्यचिन्तां शमयितु मुपसंहरन्नाह मध्यस्थ या दृशा सर्वेष्व पुनर्बन्धकादिषु । चारि सञ्जीवनीचारन्यायादाशास्महे हितम् ।। ८ ।। मध्यस्थयेत्यादि । सर्वेषु-निखिलेषु नत्वेकस्मिन् द्वयोरेव वा, विशिष्य तथा निर्देशस्य स्वस्य तादृशसाधन शून्यतयाऽशक्यत्वादिलि. भावः । अपुनर्बन्धकादिषु-अपुनबन्ध कादिशब्दवाच्येषु मध्यस्थ. लक्षणलक्षितेवेव, लक्षण या तदाधि मध्येव, नत्मन्यत्र । सर्व सावधारणमितिन्यायादवधारणलाभ इति बोध्यम् । मध्यस्थयानयेषु समशीलया रागद्वेषशून्यया, दृशा-दृष्ट्या हेतुना, मध्यस्थदृष्टिसद्भावाद्धतोरित्यर्थः । चारिसञ्जीवनीचारन्याया-चारं रूपा
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy