________________
ज्ञानसारे मध्यस्थाऽष्टकम्
१७५
तत्वात्कुलपरम्पराऽऽयातत्वात्स्वयं स्वीकृतत्वाचायं ममेति संस्कारास्वसम्बन्धी य आगमः सिद्धान्तः, जिनोक्तं स्याद्वादाख्यं दर्शनम् । तम् । रागमात्रेण- रागो वासनाजनिताऽऽसक्तिः, स एव रागमात्रम् , तेन, केवलं रागेण हेतुनेत्यर्थः आबाल्यादेवाऽऽराषितस्वाचिरसम्पत्कुिलपरम्पराप्राप्तवाच्च हृदि तद्वस्तुविषया वासना जायते, ततश्च तत्र समासक्तिः । तस्यां च सत्यां न्यूनमपि तदेव रोचत इति बोध्यम् । न-नैव, श्रयामः-आराधयामः । स एवं मध्यस्थदर्शन मिति तदेवोपादेयमित्येवं प्रतिपादयामो वा । वातथा, परागमम्-परे बुद्धादयस्तेषामागमं सिद्धान्तम् , द्वेषमात्रात्द्वेषोऽप्रीतिः, इदं परकीयं दर्शनं मसिद्धान्तविरोधीत्येतावता तस्मिन् जाताऽरुचिः । स एव द्वेषमानं ततो हेतोः, सर्वो हि स्वविरोधिनंद्वेष्टीति भावः । न-नैव, त्यजामः-परिहरामा, यत्र द्वेषः स उत्तमोऽपि त्यज्यते लोकै रिति भावः । ननु तर्हि त दृशाश्रयत्यागमयोः को हेतु रितिचेत्तत्राह-किन्विति । हेत्वन्तरमेवाऽत्राऽस्तीत्यर्थः। तदेवाह-मध्यस्थया-स्वागमपरागमयोः समशीलया रागद्वेषरहितया, दृशा-दृष्ट्या, विचारणयेत्यर्थः । परीक्षयेति यावत् । श्रयामस्त्य जामो वेति सम्बध्यते । रागद्वेषरहितया समशीलया हशा स्वागमपरागमयो र्गुणदोषान् विचार्यैवाश्रयत्यागी न तु तत्र रागद्वेषौ हेतू इत्यर्थः । यदुक्तम् “ पक्षपातो न मे वीरे न द्वेषः सुगतादिषु । युक्तिमद्वचनं यस्य स एव परिगृह्यते" इति, तथा " न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदासत्वपरीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताःस्म" इति च ।