________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
"
आत्मसाधन पद्धतय इति चार्थः । औपम्यवलादेव चाऽक्षयमेकमिति च विशेषणमिहाऽपि बोध्यम् । नित्यत्वादविनश्वरं केवलमितिचाऽर्थः । परम् - विशुद्धत्वात्सर्वोतमम् ब्रह्म-सच्चिदानन्दमयमात्मानम् । प्राप्नुवन्ति गच्छन्ति, आत्मानमेव साधयन्तीति मिलितार्थः ः । यथा नदीनां नानामार्गा अन्ततः समुद्रमेव गच्छन्ति, तथा मध्यस्थानां विविधाः साधनोपाया आत्मानमेव साधयन्ति । अतः कमप्येकं मार्गं यथारुच्या श्रित्य कृतकृत्यत्वसम्भवान्न मोहः कार्य इत्याशयः । अत्र सरिन्मार्गमध्यस्थमार्गयो भेदेऽप्यभेद्राऽध्यवसायादतिशयोक्त्यनुप्राणितोपमालङ्कारो बोध्यः । मध्यस्थानां मार्गेषु न संशयः कार्यः, तेषां सर्वेषामेव साध्यसाधन सामर्थ्यसद्भावात् मध्यस्थानामेव तत्र प्रामाण्यात् मार्गानुपारितयैव माध्यस्थ्य निर्वाहादिति हृदयम् ॥ ६ ॥
२७४
"
-
ननु स्याद्वादो मध्यस्थदर्शन मिति तदेवोपादेयमिति भवत आकूतम्, तत्रैव वस्तुस्वरूपस्य सर्वनयाऽभिमतधर्मात्मकतया प्रतिपादनात् । यदुक्तम् - "नयानशेषान विशेषमिच्छन्न पक्षपाती समयस्तथा ते " इति । भवांश्व स्याद्वादकृतादरः इति भवतः पक्षपातित्वमापतति, सर्वैव हि गोपालिका स्वं दधिमधुर माहेति शिष्यशङ्कां समाधित्सुराह -
स्वागमं रागमात्रेण द्वेषमात्रात्परागमम् ।
न श्रयामस्त्यजामो वा किन्तु मध्यस्थया दृशा ॥ ७ ॥ स्वागममित्यादि । स्वागमम् -स्वस्य स्वपूर्वजा दिभिराराधि