SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मानसारे मध्यस्थाऽष्टकम् मवस्थानं फलविशेषाऽभावादनुचितं चेतिहृदयम् ॥ ५ ॥ ननु नयेषु समशीलानां मध्यस्थानामपि विभिन्नाः पन्थानः । उचाहि केचन दिगम्बराः, केचन श्वेताम्बराः, केचन मूर्ति पूजयन्ति, अन्ये च तनिषेधन्ति, अथवा मध्यस्था अप्यपुनर्बन्धकादयो बहवः, तेषां साधनमार्गाश्च जिनकल्पादयो विविधा इति वैबगृहेऽपि कारणप्रवेश इति मादृशानां मन्दमतीनां महान् व्यामोह इत्याकुलं शिष्यमनुगृह्णन्नाह-. विभिन्ना अपि पन्थानः समुद्रं सरितामिव ।। मध्यस्थानां परं ब्रह्म प्राप्नुवन्त्येकमक्षयम् ॥ ६ ॥ विभिन्ना इत्यादि । सरिताम्-नदीनाम् , " अथ नदी सरिदि "त्यमरः । विभिन्ना:-विविधाः, परस्परं विलक्षणाः, अनेके इत्यर्थः । अपिना सदृशानां तु पथां कथैव केति सूच्यते । पन्थान:-मार्गाः, प्रवाह प्रणाल्य इत्यर्थः पक्षे आत्मसाधनपद्धतय इत्यर्थः । अक्षयम्-न क्षयो न्यूनता यस्य तं तादृशम्, सर्वदा पूर्णमित्यर्थः । अति विपुलत्वात्कैरपि क्षयाऽदर्शनाद् भाविनि क्षये मानाऽभावाचेति बोध्यम् । पक्षे नित्यत्वादविनश्वरमित्यर्थः । एकम् केवलम् , " एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथे " त्यमरः । समुद्रम्-सागरमिव, सागरमेव नत्वन्यमिति समुदायार्थः । मध्यस्थानाम्-नयेषु समशीलानां रागद्वेषशून्यानां श्वेताम्बरादीनामपुनर्बन्धकादीनां वा । औपम्य बलाद्विभिन्ना अपि पन्थान इति सम्बध्यते । परस्परं विलक्षणा अपि स्थविरकल्पजिनकल्पाघाख्या
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy