________________
भद्रकरोदयाख्यव्याख्याविभूषिते
मन इत्यादि । मन:-चित्तम् , अर्थान्मध्यस्थस्येति बोध्यम् । यावत्-यदवधि, परदोषगुणग्रहे-परे स्वस्मादन्ये ये प्राणिनस्तेषां दोषा आत्ममालिन्यरूपदूषणाधायकत्वात्सावधप्रवृत्तयः, कायादीनामवगुणा वा, ते च, गुणा आत्मनैर्मल्यापादिकाः शुभप्रवृत्तयः कायादीनां शुभधर्मा वा, ते च, तेषां ग्रहे विचारणायाम् , अस्येमे दोषा गुणाश्चेत्येवंचिन्तायामित्यर्थः । रागद्वेषाद्यभावेऽपीति शेषः । लोको हि रागादिकं विनाऽपि परगुणदोषान् विचारयतीति बहुशो दृष्टमितिभाव, । यद्वा-परे नयेषु समशीलान्मध्यस्थादन्ये एकान्तवादिनस्तेषामुपलक्षणत्वात्तद्वादानां दोषाणां गुणानां च आहे इत्यर्थः । एकान्तबादेषु के दोषा गुणाश्चेत्येवं पर्यालोचन इति सारार्थः । व्यापृतम्-लग्नम् , स्वात्-भवेत् , तावत्-तदवधि, मध्यस्थेन-नयेषु समशीलेन रागद्वेषशून्येन कर्ता, आत्मभावनेआत्मन आत्मस्वरूपस्य शुद्धसच्चिदानन्दमयत्वस्य भावने परिशीलने, व्यग्रम्-समासक्तम् , मन इति सम्बध्यते । कार्यम्विधेयम् , तदेतत् , वरम्-इष्टमुचितं च । परगुणदोषचिन्ता ततः कदाचिद्रागाद्युदयसम्भवादनिष्टेति मध्यस्थस्य हेयैव । आत्मपरिशीलनं तु सर्वदा सर्वथा च श्रेयो निमित्तमेवेति तदेवोपादेयमनुरूपं चेति मध्यस्थः परगुणदोषचिन्तां परित्यज्याऽऽस्मानमेवाऽनुशीलयतीति परगुणदोषचिन्तां विहाय मध्यस्थेन सताऽऽत्मक परिशीलनीय इति वा, परवाददोषगुणचिन्तात आत्मपरिशीलनमेव मध्यस्थानां श्रेष्ठम् , ततः कालव्ययं विहाय फलान्तराऽभावादिति वा तात्पर्यम् । मध्यस्थस्याऽपि परचिन्ता माध्यस्थ्यभङ्गसम्भावनाया