________________
ज्ञानसारे मध्यस्थाष्टकम्
१७१
I
"
शुभाशुभात्मकानि कर्माणि ज्ञानावरणाद्याख्यानि तानि लक्षणया तत्फलानि शुभाशुभात्मकानि भुञ्जन्ति वेदयतीति ते तादृशाः, कर्मपरवशा इत्यर्थः । कर्मपारवश्यादेव तेषां तथा प्रवृत्तिरिति भावः । एतेन तेषां रागद्वेषाऽनईता समर्थिता, नहि परवशो रागद्वेषादीनां पात्रमपि तु करुणाया इति बोध्यम् । अत एव तेषु तादृशेषु कर्मपारवश्यात्स्वस्वकर्मणि प्रवृत्तेषु प्राणिषु, मध्यस्थः - समतामति जैनः, रागम् - प्रीतिपासति च, न-नैव गच्छति - आश्रयति, अपि चेति समुदायः समुच्चये । द्वेषम् - अपीतिमरुचि वा, न-नैव, गच्छतीति समुच्चयबलात्सम्बध्यते । एवञ्च न नयेषु समशीलतामात्रं माध्यस्थ्ये प्रयोजकमपि तु प्राणिषु रागद्वेषपरिहारोऽपीति न - येषु समवृत्ती रागद्वेषशून्यश्च मध्यस्थः, स एव च महामुनिरिति सुष्ठुकम् - " स मध्यस्थो महामुनिरि "ति हृदयम् । स्व स्वकर्मकृतावेशा:- स्वेन स्वेन शुभाशुभप्रवर्तन परिणामेन निष्पादितानि यानि कर्माणि ज्ञानावरणादीनि तैः कृतः सम्पादित आवेशो ग्रहावेशादेखि पारवश्यं येषां ते तथा स्वस्त्र कर्म भुजः - स्वकीय-स्वकीयकर्मणः शुभाशुभं फलं भुञ्जन्ति तथा विधा" इत्येवं व्याचक्षाणाः पौनरुक्त्यमनीक्षमाणाः प्रेक्षावतामुपालभ्या एव । नहि कर्मकलभोगादन्यत्कर्मकृतं पारवश्यं किञ्चिदिति सुधियो विदाङ्कुर्वन्तु ॥४
66
,
उक्त प्रकारमाध्यस्थ्ये सत्यपि परगुणदोषचिन्ता हेया, आत्मलाभपरिपन्थिस्वादिति शिष्यमुपदिशन्नाह -
मनः स्याद् व्यापृतं यावत्परदोषगुणग्रहे । कार्यं व्यमं वरं तावन्मध्यस्थेनाऽऽत्म भावने ।। ५ ।।