SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७० भद्रङ्करोदयाख्यव्याख्याविभूषिते प्रतिपक्षाभ्यामसंस्पृष्ट एवाऽन्तराले तिष्ठत्युभयाऽभिमतानर्थानङ्गीकरोतीति व्युत्पत्या वस्तुतो मध्यस्थः । अत एव, सः, महामुनिः माध्यस्थ्यात्मकमहत्त्वविशिष्टत्वान्महांश्चाऽसौ मुनिश्च स तादृशः । अत्र च यो मध्यस्थः स एव महामुनिः, महत्वस्याऽन्यथाऽनिर्वाहात् । न च महामुनेरन्यो मध्यस्थो भवितुमर्हति, समताया अल्प. सत्त्वेनाऽसाध्यत्वादिति ध्वन्यते । सर्वनयार्थसमवृत्तिः स्याद्वाद. सिद्धान्तपूतात्मैव भवतीति स एव मध्यस्थस्तनिरितार्थग्रह एवं च विवेक इति गूढाकूतम् ॥ ३ ॥ ननु लोके वीतराग एव महामुनि र्गीयत इति शतितमानसं शिष्यमाश्वासयन्नाहस्वस्वकर्मकृतावेशाः स्वस्त्र कर्मभुजो नराः । न रागं नाऽपि च द्वेपं मध्यस्थस्तेषु गच्छति ।।४।। ___ स्वस्वेत्यादि । नराः-उपलक्षणत्वात्प्राणिमात्रम् , स्वस्वकर्मकृतावेशाः-स्वस्य स्वस्य स्वसम्बन्धीनि यानि कर्माणि जीवनयात्राद्यर्थं सावद्या विविधाः व्यापारा इत्यन्यान्यप्रादुर्भावादिवत्समासः । तेषु तादृशेषु व्यापारेषु कृत आवेशः संरम्भो यैस्ते तादृशाः,. जीवनयात्राद्यर्थ साटोपं स्वस्वव्यापारेषु प्रवृता इत्यर्थः । दृश्यते हि लोकेऽज्ञानिनां प्राणिनां जीवनयात्राद्यर्थं ततत्कर्मसु साटोपं प्रवृत्तिरिति भावः । ननु किमिति तादृशक्रियासु प्रवृत्ति स्तेषां न पुनरात्मलाभार्थमिति जिज्ञासापूरणाय तत्र विशेषणद्वारेण हेतुमाह स्वस्त्रकर्मभुजः-स्वस्य स्वस्य स्वेनोपार्जितत्वात्स्वसम्बन्धीनि यानि
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy