________________
१६९
सम्प्रति को मध्यस्थ इति विप्रतिपन्नस्य शिष्यस्य स्पष्ट
प्रतिपत्तये तल्लक्षणमाह
- ज्ञानसारे मध्यस्थाष्टकम्
नयेषु स्वार्थसत्येषु मोघेषु परचालने ।
"
66
समशीलं मनो यस्य स मध्यस्थो महामुनिः ||३|| नयेत्रित्यादि । स्वार्थसत्येषु - स्वेषां तत्तन्नयानां येsa अभिमता धर्मास्तेषु तद्विषये सत्याः सन्तस्तेषु तादृशेषु, सदर्थेष्वित्यर्थः । वस्तुनोऽनन्तधर्मात्मकत्वात्तत्तन्नयाऽभिमतोऽर्थस्तत्राऽस्त्येवेति सर्वे नयाः स्वार्थ सत्या नत्वसदर्थका इति भावः । अत एव, परचालने परे स्वस्मात्तत्तन्नयाद्भिन्ना येऽन्ये नयास्तेषां चालने दूषणे निराकरणे च, मोघेषु निष्फलेषु, प्रयस्याऽपीतिशेषः । वस्तुन्यन्यनयाभिमतार्थानामपि सत्त्वात् सतश्च प्रयाससहस्रेणाऽपि दूषण निराकरणयोरसम्भवादिति भावः । वन्ध्ये मोघाऽफलमुवा" इति हैमः । नयेषुः वस्त्वेकांशप्रतिपादकवचनमार्गेषु नैगमसङ्ग्रहव्यवहारर्जुसूत्र शब्द समभिरू दैवम्भूताख्येषु नयशब्देन प्रसिद्धेषु, यस्य - यादृशस्य प्राक्तनपुण्यशालिनो जनस्य, मनःचित्तम्, अन्तःकरणमित्यर्थः । समशीलम् - तुल्यभावम्, अपक्षपातीत्यर्थ । यो हि सर्वनयाऽभिमतार्थानिच्छति, वस्तुनस्तथात्वात् । नत्वेकं समर्थयति, कदामइवशादपरं च निराकरोति । तथा सति समशीलत्वाभावाद्वस्तु याथात्म्य महाऽनापतेश्च । वस्तुनोऽनेकान्तामकस्यैव मध्यस्थदृशाऽवधारणादिति भावः । किञ्च न पक्षपाती मध्यस्थोऽपि तु समदृष्टिरित्याह-सः - तादृशो जनः, मध्यस्थःपक्षप्रतिपक्षपरिहारपूर्वकं सर्वेषामेवाऽविशेषेणाऽवलोकनान्मध्ये पक्ष
-