SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८ भद्रकरोदयाख्यव्याख्याविभूषिते द्वेषहीनस्य जनस्य, मनोवत्सः - मनश्चित्तम्, तदेव तत्त्वनिर्णयात्मक क्षीरसमुत्सुकत्वाद्वत्सो वत्सतरः, सः । युक्तिगवीम् - युक्ति निर्देष्टत्वात्सतर्क एव तत्व निर्णयात्मक क्षीरप्रदा गौस्ताम् । समासान्तोऽद् | अनुधावति शीघ्रमनुसरति । मध्यस्थस्य मनसि तत्त्वनिर्णयप्रयोजिका सद्युक्तिः सद्य एव स्फुरतीति तात्पर्यम् । अत एव तस्य सुकर स्तत्त्वनिर्णयः सुलभश्च विवेक: । गौनुधावन्तं वत्सं दुग्धेन तोषयत्येवेति परम्परित रूपकेण ध्वन्यते । नन्वन्यस्य किमिति चेत्तत्राइ - ताम्- युक्तिगवीम्, तुच्छाग्रहमनः कपिः- तुच्छ ः सद्युक्तिरहितत्वात्फल्गुराग्रहः पक्षपातो यस्य स तादृशः कदाग्रही, तस्य मन एव निष्कारणमपराध प्रवृत्तत्वात्कपि बनिरः । पुच्छेन - लाङ्गूलेन तत्तुल्येनैकदेशेनेत्यर्थः । पुच्छे गृहीत्वेति हृदयम् । पश्चाद्भागत इति यावत् । न तु शृङ्ग दिना साम्मुख्येन च, तथा सति ताड़ननिराकरणसम्भवादिति भावः । आकर्षति - पश्चात्कर्षति, कदर्थयति, सद्युक्ति चालयितुं गाञ्चाऽपीतां सम्भ्रान्तां च कर्तुं यतते । यथां न तत्त्वनिर्णयात्मक दुग्धलाभ इति भाव: । गौर्हि पुच्छादिना कृष्टा कदर्थिताऽप्रीता सम्भ्रान्ता च वत्सायाऽपि दुग्धं न ददाती ते प्रसिद्धम् । तथा सद्युकिः कदाग्रहिणा कुतरेकदेशेऽपिच्छलाद्याश्रित्य दूषिता तत्त्वनिर्णये विलम्बत एव । मध्यस्थो युक्तिमनुसरति, कदाग्रही च तां छलादिना दूषयतीति कदाग्रहं परित्यज्य मध्यस्थेनैव तत्त्वबुभुत्सुना भाव्यम् । मध्यस्थस्यैव हि तत्त्वनिर्णयो न कदाहिण इति तात्पर्यम् ॥ २ ॥ - 1
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy