________________
ज्ञानसारे मध्यस्थाष्टकम्
१६७
·
हेत्वाभासादिदोषदुष्टतया हेयप्रकारा ये तर्का युक्तय ऊहा वा, व एव वस्तुतत्त्वाऽन्वेषणार्थं सद्युक्तिमार्गगामिणामरुन्तुदतया गतिविघ्नकारितया च कर्कराः पान्थानां पद्याः शर्करा इव, तत्क्षेपैः प्रक्षेपैरुपन्यासैश्च कृत्वा यद्, बालचापलम् - बालकृताऽसमीक्षितप्रवृतिः, तत् तदिवेत्यर्थ । बालस्य चापलमिव चापलवेति यावत् । यथा हि मार्गं गच्छति पान्थे दुर्विनीतो बालः स्वापल्या मार्गे कर्करान् क्षिरति यथा पान्थः पीडामनुभवति, न च गन्तुं शक्नोति । न वा तेन तस्य बालस्य कोsपि लाभ:, प्रत्युत स उपलभ्यत एव लोके । तथा तत्त्वान्वेषणमार्गे कुतर्कोपन्यासस्तत्वबुभुत्सूनां पीडा फलस्तत्वबोधपरिपन्थी च । न वा तेन कुतर्कोपन्यासकानां कोऽपि लाभः कुतर्कस्य विदुषा निराकरणात्, प्रत्युत लोकापवाद एवेति कुतर्कोपन्यासो बालचापलमेवेति भावः । ब्यत एव त्यज्यताम् - हीयताम् । नाऽन्यथा विवेकलाभसम्भव इति भावः । विवेकलाभाय वादः समाश्रयणीयो जल्पवितण्डे च हेये, नान्यथा निरुगलम्भं स्थिति विवेकलाभो वा, प्रत्युत बाल चपलोऽयमित्यपवाद एवेति निष्कर्षः ॥ १ ॥
"
ननु मध्यस्थस्य कथं तत्त्वनिर्णय इति शिष्य जिज्ञासां समाधित्सुराह -
मनोवत्स युक्तिगव मध्यस्थस्याऽनुधावति । तामाकर्षति पुच्छेन तुच्छाग्रहमनः कपिः
॥ २ ॥
मनोवत्स इत्यादि । मध्यस्थस्य-नयेषु समशीलस्य राग