________________
સ
भद्रङ्करोदयाख्यव्याख्याविभूषिते
च स्वनामख्यातस्य रोगविशेषस्य, वैषम्यम् - अनर्थप्रयोजकत्वमसाध्यत्वं प्रकोपो वृद्धिर्वा, क्व ? - काक्वा न क्वाऽपीत्यर्थः । ज्वरार्त्तस्य हि स्नानं ज्जरवैषम्याय जायत इति भिषजः । यस्तु चिकित्साशास्त्रोक्तप्रस्वेदवस्तिविरेचनादिषट्कायशोधककारकाणि सेबते, तस्य स्नानादिना न विषमज्वरादिसम्भवः । तथाऽऽत्ममग्नस्योक्तरीत्या स्वस्मिन् षट्कारकसङ्गतिमादधानस्य शरीररक्षाद्यपुङ्गलसम्पर्को नाऽविवेकायेति सारार्थः । अत्र श्लेषाऽनुप्राणितपरम्परित रूपकालङ्कारः ॥ ७ ॥
अथ शिष्य प्रवृत्तये विवेकस्य कलं सूचयन्नुपसंहरतिसंयमात्र विवेकेन शाणेनोत्तेजितं मुनेः । धृति धारोल्बणं कर्मशत्रुच्छेदक्षमं भवेत् ॥ ८ ॥ इति महोपाध्याय श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे विवेकाऽष्टकं नाम पञ्चदशमष्टकम् ॥ १५ ॥
―――――
संयमानमिति । मुनेः सम्यक्त्ववतः साधोः, “सम्यक्त्वमेव तन्मौनं मौनं सम्यक्त्वमेव वे " त्युक्ते रिति बोध्यम् । संगमाऽस्त्रम्संयमश्चारित्रमेव कर्मच्छेद साधनत्वादस्त्रमा युध मित्र, तत् संग्रमरूपमस्त्रमिति वा । बिषेकेन- देहात्म मेदज्ञानेन तद्रूपेणेत्यर्थः । शाणेन - शस्त्रादिनिशान कषोपलेन, "शाणस्तु निकषः कष " इति हैमः । उत्तेजितम् - तीक्ष्णीकृतम्, साध्यसाधनक्षमं कृतमिति संस्कृतमुमापादितं च । एतेन च्छेद योग्यता समर्थिता । तीक्ष्णं हि च्छेदयोग्यं न तु मन्दमिति बोध्यम् । तथा, धृतिधारोल्बणम्