________________
शानसारे मध्यस्थाऽष्टकम्
धृतिः सन्तोषः, " धृतिः सन्तोषः स्वास्थ्यं स्यादि "ति हैमः। सैव धारा नेमिस्तयोल्बणं व्यक्तम् , सम्यक्परिलक्ष्यमाणं भास्वरं प्रकटं चेत्यर्थः । शाणेनोत्तेजिता हि शस्त्रस्य धारा सती स्पष्ट लक्ष्या भवति । संयमोऽपि च विवेकसंस्कृतो धृत्या प्रकाशते इति बोध्यम् । तादृशं सत् । “धारा प्रधिः पुनः । नेमिरि" ति " प्रकाशः प्रकटोत्षणो व्यक्तमि "ति च हैमः । कर्मशत्रुच्छेदक्षमम्-कर्माणि शुभाऽशुभानि ज्ञानावरणादीनि, तानि नानाविध जन्म जराधनिष्टापादकत्वाच्छत्रवस्तेषां छेदे नाशे क्षमं समर्थम् , भवेत् स्यात् । अस्त्रं हि निशातं प्रकटधारं शत्रुच्छेदक्षमम् , तथा संयमोऽपि विवेकसंस्कृतो धृत्योत्कर्षमाप्तः कर्मच्छेदक्षमः । विवेकाऽभावे तु मम्दधाराऽस्लवदेव सन्नपि न कर्मच्छेदक्षम इति विवेकः परम्परया कर्मच्छे दायेति सोऽवश्यं साध्य इति भावः । परम्परित. रूपकाऽलङ्कारः ॥ ८ ॥
इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यासप्रवर श्रीयशोभद्रविजयगणिवरशिष्यपन्यासश्रीशुभङ्करविजयगणिविरचितायां भद्ररोदयाख्यायां व्याख्यायां विवेकाऽष्टकं नाम पञ्चदशमष्टकम् ॥१५॥
॥ मध्यस्थाऽष्टकम् ॥ ननु देहाऽऽत्मवादिनां देहाऽऽत्माऽमेदबोध एवं विवेकोऽन्येषां चाऽन्यादृश इति विवेको दुर्वचो दुर्लभश्चेति व्यामूढमनर्स शिष्यमुपलक्ष्य विवेक प्राप्तये माध्यस्थ्यं द्वारमिति तदुपदिदिक्षु