________________
१६२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
इच्छन्-उपबुभुक्षुर्जनोऽद्रेरघः पतत्यागच्छति, अन्यथा तदनुपलब्धेरिति प्रकटम् । अथवाऽनात्मनीयत्वादेहधनादिकानपारमार्थिकान् भावानभिलाषुको रागादिमान् जनो विवेकाद्रिमारोढुं कृतोद्यमोऽपि नोवं विवेकं सन्मार्गज्ञानादिसाधनं विना दुरधिगममद्रिमधिरोहति, प्रत्युताऽध एव पतति । सम्यक्त्वादिना रागादिनिग्रहेणैव विवेकाऽद्रिरोह सम्भवादिति विवेकलाभार्थ रागादि हेयः सम्यक्त्वञ्चाऽराध्यमिति तात्पर्यम् । तदाह-परमम् नित्यत्वाऽनन्तत्वाऽऽत्मीयत्वादिना पारमार्थिकम् , उपादेयमित्यर्थः । भावम्-परिणामम् , सच्चिदानन्दात्म काऽऽत्मस्वभावमिति यावत् । मुक्तिमिति हृदयम् । अन्विच्छन्-सञ्जिवृक्षुः, परभावलाभार्थं विहितोद्यम इति तात्पर्यम् । अविवेके-देहात्मादियाथात्म्याऽनवबोधाऽऽत्मकेऽ. ज्ञाने विविधाऽपायाश्रयगहनगर्तरूपे इति निमज्जतीति क्रियास्वारस्याद्गम्यते । न-नैव, निमजति-ब्रुडति, नाऽविवेकेन पराभूयत इत्यर्थः । अविवेकं नाऽऽप्नोति, सन्तं च त्यजति । परमभावसाधन. स्याविवेकाऽपाकृतिप्रयोजकत्वादविवेकसत्त्वे परम भावलामाऽसम्भवा. श्वेति भावः । परममद्रिशिखरस्थत्वादुत्तमं भावमन्विच्छन् हि सञ्चिततादृशसामग्रीसमग्रोऽद्रिमारोहति, न च ततोऽपरोहति, तथा सति परमभावाऽलाभादिति तात्पर्यम् । श्लेष सङ्कीर्णं रूपकमत्रा• ऽलङ्कारः ॥ ६॥
ननु परमं भावमिच्छतोऽपि शरीररक्षाद्यर्थमपरमभावेच्छाऽशक्यपरिहारेति तन्मूलोऽविवेको लेशतोऽपि दुर्निवार इति शिष्य विप्रतिपत्ति निराचिकीर्षुराह