________________
हानसारे विवेकाऽष्टकम्
प्रसिद्धत्वादेहात्मनोरभेदनमो न पर्यनुयोगईतीति भावः। एवश्व नवाप्रयतनीयं यथा तादृशभ्रमो निवर्तत इति हृदयम् ॥५॥
शिष्यजिज्ञासां कलयन् विवेकस्याऽपायोपायावाहइच्छन्नपरमान् मावान् विवेकाद्रेः पतत्यधः । परमं भावमन्त्रिच्छन्नाऽविवेके निमजति ॥ ६ ॥
इच्छमिति । न परमान्-न परमा उत्तमाः, उपादेयास्तातित्यर्थः । न शब्देन समासः । यद्वाऽपरमानितिच्छेदः, अर्थस्तु तुल्य एव । उभयथा हि नकारद्वयश्रुतिसम्भवादिति ध्येयम् । अनित्यत्वाऽशुभानुबन्धित्वादिना हेयानित्यर्थः । भावान्-देहधनादीन् पदाझन् , इच्छन्-अभिलप्यन् जनः, कामनापरवश इति सारः । देहधनादिबहुमान्यज्ञानीति हृदयम् । विवेकाऽद्रे:-विवेको वस्तुयामात्म्याऽबोध एवाऽदिरिव दुरारोहत्वादु' घिगमत्वादद्रिस्ततः । अधः-नीचैः, विवेकानेस्तले, वस्तुयाथात्म्याऽनववोधात्मकस्थिती, देहात्माद्य भेदम्रम इति सारः । पतति-गच्छति, अविवेकेन पराभूयते इति निष्कर्षः । यद्यपि पतनमधोगमनमेव, तथाप्यत्र पततिमतिमात्राऽर्थो विशेषगवाचकपदसान्निध्यादिति बोध्यम् । रागादि. लिप्तो विवेकाद्मश्यतीति भावः । विवेकिनोऽपि रागादिवशात्पतन. मिति रागादिकं विवेकिनोआयस्थानमिति भावः । यथा-अपराऽद्रिशिखराऽपेक्षया विलक्षणाऽन्यादृश्यपकृष्टा वा मा शोभा येषां ते ताहशास्तान् भावान् , अद्रितलस्थोपवनलतादीनिति यावत् ।
११