________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
बिभित्सुराह...इष्टकाद्यपि हि स्वर्ण पीतोन्मतो यथेक्षते ।
आत्माऽभेदभ्रमस्तद्वदात्मादावविवेकिनः ।। ५॥ - इष्टकाद्यपीति । यथा-येन प्रकारेण, पीतोन्मत्तः-पूर्व पीतः इतमुरादिपानः पश्चादुन्मत्तो मदमुपगतः स तादृशः। मदिरादिपानाद्धयुन्मत्तताऽज्ञानिनः प्रसिद्धैव, न च ज्ञानी पानशौण्ड इति व्यक्तमेव । यद्वा-पीत उन्मत्तो धत्तूरो येन स तादृशः, उन्मत्त उन्मादवति धत्तूरमुचुकुन्दयोरि "ति विश्वः । मदेनलुप्तस्वर्णेष्टकविवेक इत्युभयत्राऽपि निष्कर्षः । इष्टकाद्यपि-इष्टका पीतवर्णो मृत्पिण्डश्चितादौ पक्कश्चतुरस्रः, आदिना तादृश पीतवर्णा उपलादयः । तदपि-असुवर्णमपीति हृदयम् स्वर्णम्-स्वर्ण रूपम् , सुवर्णत्वेनेत्यर्थः । ईक्षते-प्रान्त्या चक्षुषविषयं करोति । तत्र निमित्तं च पीतवर्णतादिकं सामान्यम् । अपिनेष्टकादौ स्वर्णवैलक्षण्याऽतिशयो. घोत्यते। हिरिति प्रसिद्धौ, अतमिस्तज्ज्ञानरूपो भ्रमः प्रसिद्ध इत्यर्थः । तद्वत्-तथा, अविवेकिनः-वस्तुयाथात्म्यज्ञानं विवेक. स्तच्छून्यस्येत्यर्थः । देहात्मविवेकविकलस्येति हृदयम् । देहादीशरीरपरिवारादौ, आत्माऽभेदभ्रमः-आत्मा स्वः स्वकीयश्चतत्या. ऽऽत्मनो जीवस्य देहादिना योऽभेदस्तादात्म्य तभ्रमः, अहन्ताममवमानमिति यावत् । यस्य हि न देहादियाथात्म्यज्ञानं तस्य मेद. प्राहकसामग्र्यभावादहं सुखीत्यादि व्यवहारादभेदग्रहसामग्रीसत्त्वाच देहात्मनोरभेदभासो भ्रम एव । तयोर्वस्तुतो भेदात् । जनानां हि विवेकाऽभावे भ्रम उत्सर्गः। अत एवेष्ट कादौ स्वर्णादिभ्रमस्य