________________
शानसारे विवेकाऽष्टकम्
१५९
भ्य समापितमारब्धं वा । युद्धम्-सङ्ग्रामः, स्वामिनि-वेतनादि. दानादिना प्रभौ नृगदिरूपे एव, नत्वन्यत्र योधादौ, उपचर्यतेभारोप्यते । योधान् हि स्वाम्येव वेतनादिदानादिना युद्धाय प्रेरयसीति स्वामिनिमित्तत्वात्सम्बन्धादतस्मिस्तथा व्यवहियते । निश्चय. नयेन तु युद्धानुकूलव्यापाराश्रयस्य योधस्यैव तत्कर्तृत्वं न तु स्वामिन इतीहशविवेकाऽभावादेव तथाव्यवहारः । तथा-तद्वत् , कर्मस्कन्धोर्जितम्-कर्मस्कन्धैर्भटस्थानीयैर्बद्धैः कर्मवर्गणात्मकः शुभाशुभाख्यैः, कर्म पुजैः कृत्वेत्यर्थः । ऊर्जितमुदीरितमुद्भावितं वा, कर्मस्कन्धैर्निमित्तम्तै नितं सुखदुःखादिकमिति यावत् । अविवेकेन-देहात्म भेदाऽग्रहात्मकेनाऽज्ञानेन हेतुना, शुद्धात्मनि-साक्षासुखदुःखाद्यनिमित्तत्वेऽप्यासवादिना कर्मबन्धकर्तृत्वात्स्वामिस्थानीये सुखदुःखादिनिमित्तत्वरूपदोषशून्यत्वान्निर्दोषेऽप्यात्मनि विषये, उपचर्यत इति सम्बध्यते । आत्मैव सुखीत्याद्ययथार्थो बोषो जायते इत्यर्थः । तादृशज्ञाने चाऽविवेको हेतुः। विवेके सति तु न तथा बोध इति यावदविवेकस्तावत्तथाबोधोऽपि दुर्निवारः, अकिवेकाऽपगमे च कारणाऽभावात्कार्यस्याऽप्यभाव इति न ज्ञानिनो लौकिकं सुखं दुखं वेति भावः । यदुक्तम् - " अधिष्ठानं तथा कर्चा करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवाऽत्र पञ्चमम् ॥ १॥ शरीरवाङ्मनोभिर्यकर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥२॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान स पश्यति दुर्मतिरि"ति ॥४॥
ननु वस्तुतो देहात्मनोहेंदे तत्राऽभेदो दुर्मह इति शिष्यशडां