________________
: १५८
भद्रङ्करोदयाख्यव्याख्याविभूषिते
स्वचेतने, शुद्धेऽपीतीहानुषज्यते । निश्चय नयमते शुद्धसच्चिदा नन्दमयत्वेन विकाररहितत्वेनाऽविकृते ऽपीत्यर्थः । अविवेकतः - -देहाऽऽत्माभेदग्रहाऽज्ञानतः, तदपेक्ष्येत्यर्थः । तन्निमित्तमिति यावत् । तस्मिन् सतीति हृदयम् । विकारै:- कर्मप्रेरितविषय विकल्पैरात्मनः शुद्धत्वाssवरणादूषण। द्विकारपदवाच्यै रागादिभिः, मिश्रतामिश्रणम्, तादात्म्यमित्यर्थः । आत्मनो रागादिमत्त्वमिति यावत् । विकृतत्वमिति सारार्थः । भातीति सम्बध्यते । आत्मा स्वभावतः शुद्ध एंव किन्त्वविवेकतस्तत्र रागादिप्रादुर्भावः । देहात्मविवेके तु यथा देहे न तस्य रागस्तथाऽन्यत्राऽपीति दारागारादिष्वपि रांगांदेरविवेक एव मूलम् । तदभावे च सर्वविधरागाद्यभाव इत्यविवेक एव सर्वाऽनर्थमूलमिति विवेकार्थमप्रमादिना श्रेयोऽर्थिना प्रयतनीयमेवेति तात्पर्यम् । अत्रैकं मिश्रतापदमधिकम् एकेनाऽपि मिश्रतापदेनाऽन्वयवशादिष्टार्थलाभसम्भवादिति ध्येयम् ॥ ३ ॥
,
ननु देहात्मनोरैक्यमेव । कथमन्यथा देहे स्वस्थे सुखीति - तदस्वास्थ्ये च दुःखीत्यात्मसामानाधिकरण्येन प्रत्ययः स्यात् । न च तत्राऽऽत्मा निमित्तमित्यतस्तथाप्रत्ययः, तत्र कर्मणो निमित्तत्वाद आत्मनः शुद्धत्वेन निर्व्यापारत्वादिति शिष्यशङ्कां निराकुर्वन:यथा योधैः कृतं युद्धं स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकेन कर्मस्कन्धोर्जितं तथा ॥ ४ ॥
1
66
योद्धारस्तु मटा
यथेति । यथा-यद्वत्, योषैः - भटैः, : योधा " इति हैमः । कृतम् - विहितम्, सम्पादितमित्यर्थः । आर