________________
शानसारे विवेकाऽष्टकम्
दुर्लभता, कोटिभवेष्वपि दौर्लभ्यं चाऽतिदौलभ्यमिति . ध्येयम् । नहि विना सम्यक्त्वं विवेकसम्भवः, सम्यक्त्वलाभश्चऽर्धपुद्गल पराव न्यूने भवेऽवशिष्ट एवेति स विवेको भवकोट्याऽप्यति दुर्लभ इत्यतो न सर्वस्तं साधयितुं प्रभवतीति न सर्वो विवेकी मवतीत्याशयः ॥ २ ॥
ननु देहात्मविवेकेऽपि न रागादिनिवृत्तिसम्भवः, दारागा. रादिष्वात्मभिन्नेष्वपि साऽतिशयरागादिदर्शनादिति शिष्यतर्क समाधिसुराह..... शुद्धेऽपि व्योम्नि तिमिराद् रेखाभिर्मिश्रता यथा ।
विकारैर्मिता भाति तथाऽऽत्मन्यविवेकतः ॥ ३ ॥ ५. 'शुद्धेऽपीति । शुद्धे-स्वस्वभावमात्रस्तत्वादमिश्रे, आकाशपक्षे च-अमूर्तत्वाद्वर्णा दिलेपाऽयोग्यत्वान्निर्लेपकेऽपीत्यर्थः । अपिना शुद्धत्वमिश्रत्वयोर्विरोधो द्योत्यते । व्योम्नि-आकाशे, तिमिराद्तिमिराख्यनेत्ररोगविशेषात् , तदपेक्ष्येत्यर्थः । तन्निमित्तमिति यावत्। तस्मिन् सतीति हृदयम् । रेखाभि:-विविधवर्णाभिर्विविधाभी रेखाभिः सह, बहुवचनं व्याप्त्यर्थम् । मिश्रता-मिश्रणम् , तादास्यमित्यर्थः । आकाशस्य विविधवर्णरेखातादात्म्याद्विविधवर्णत्वमिति यावत् । चित्रत्वमिति सारार्थः । यथा-यदिव, भातिप्रतिभासते, तिमिररोगहेतुको व्योम्नि विविधरेखावत्वभ्रम इति तिमिराऽपगमे तथाभानाऽभावोऽपि, वस्तुत आकाशस्य शुद्धत्वातत्र रेखाघसम्भवादयोम्यत्वादिति तात्पर्यम् । तथा-तदिव, आत्ममि