________________
१५४
भद्रङ्करोदयाख्यव्याख्या विभूषिते
अथ विवेकाऽष्टकम् ॥ १५ ॥
यदुक्तं " तत्त्वधीर्विद्ये "ति । साह्यात्मदेहादीनां विवेकेन ग्रहाऽनन्तरभाविनीति विवेक एव मूलं तादृशविद्याया इति शिष्यस्य ताशविवेकरुचि र्यथा स्यादिति विवेकनिर्वचन गर्भं विवेकिन वर्णयन्नाह -
कर्म जीवं च संश्लिष्टं सर्वदा नीरक्षीरवत् । विभिन्न कुरुते योऽसौ मुनिहंसो विवेकवान् ॥ १ ॥
"
कर्मेति । नीरक्षीरवत्-नीरं पानीयं क्षीरं दुग्धं तयोः समाहारो नीरक्षीरं तद्वत् संलिष्टम् - मिश्रितम्, सम्बद्धमन्योन्याऽनुगतं वा । सर्वप्रदेश संयोगेन तादात्म्यमापन्नमिवाऽन्योन्यमभिव्याप्तमिति यावत् । कर्म - विहित निषिद्धकर्मजन्यपुण्यपापाख्य शुभाशुभात्मकं ज्ञानावरणाद्यष्टमेदं कर्मेति प्रसिद्धम् उपलक्षणस्वात्कर्ममूलकौदारिकादिशेष शरीरपरिग्रहः । जीवम् - ज्ञानादि मयं धर्माऽवर्माssकाशपुद्रलभिन्नद्रव्यं जीवेति ख्यातम्, चेतनमित्यर्थः । चः - समुच्चये । । य:- या शो मुनिहंसः, विभिन्नीकुरुते - कर्म जीवौ परस्परं जाक चैतन्यात्मक विभिन्न लक्षणत्वाद्भिन्नावित्येवं विवेकेन पृथक्कृत्याऽवधारयति, असौ - तादृश मेदकर्त्ता, कर्मजीवयोर्भेदेनाऽवधारयितेत्यर्थः । सुनिहंसः - मुनि नीरक्षीरवत्कर्मजीव मेदपटुत्वात्साधर्म्याद् हंसः स्वनामख्याश्वेतगरुत्पश्चिविशेष इवेति सा तादृशः, अथवा मुनिश्चाऽसावुक वैशिष्ट्यात्पक्षिषु हंस इव गुणाधिकत्वाद् हंसः, स तादृशः, मुनि श्रेष्ठ इत्यर्थः । " इंसास्तु श्वेतगरुत" इत्यमरः । विवेकवान् -