________________
शानसारे विवेकाऽष्टकम्
विवेको वास्तवमेदज्ञानम् , तद्वान् । प्रशस्तभूमविवेकसम्पन्न इत्यर्थः। मुनिहंस एव देहात्मानौ मेदेनाऽवधारयितुं प्रभवतीति तादृश. मेदाऽनवारणक्षम एव विवेकवान् । अन्यथा तु हंसोऽपि किं न विवेकवान् स्यात् ।। तस्मात्कर्मजीवविवेकवानेव विवेकवानिति भावः । यद्वा-नीरक्षीरवत्सवियवव्याप्त्या संश्लिष्टं कर्म जीवं च यो विभिन्नीकुरुते - उक्त संश्लेषनाशनेन कृत्वा विभक्तं करोति, आत्मप्रदेशेभ्यो रत्नत्रयाराधनादिना कर्माणि परिशाटयति-निर्जरयतिविनाशयतीति यावत् । स तादृशो मुनिहंसो विवेकवान्-प्रशस्तभूमविवेकः । कर्म जीवौ भिन्नाविति ज्ञानमात्रं न पर्याप्तं विवेकित्वेऽपि तु मे दमूलो व्यवहारोऽपि । तथैव हि मुनिह सवच्छ्रेष्ठो. निर्मलश्च स्यादिति क्रियापोषित तादृश विवेकवानेव प्रशस्तविवेकः, स एव च मुनिहंसो मुनिहंस एव च तादृशगुणपात्रमिति विवेकवत्त्व मुनिश्रेष्ठत्वयोरैक्यमिति विवेकिवर्णनेन विवेकस्य स्वरूपं माहात्म्यं चोपवर्णितम् । एतेनाऽऽदो तावद्विवेकिना भाव्यं ततो विद्ययाऽऽस्मजेनेति विवेकः सर्वश्रेयोमूलमिति धन्यते । अत्रोपमा स्फुटैव ।।१।। . ननु यदि विवेक ईदृमहिमा, तर्हि किमिति सर्व एव तं न साधयतीति शिष्यक्षकां तस्याऽतिदुर्लभत्वोपवर्णनेन निराकुर्वनाह, यद्वा-ननु देहात्मविवेकः सर्वस्यैवेति सर्व एव विवेकवान् विद्वानास्मज्ञश्च कथं न भवतीति शिष्य शङ्कायां वस्तुस्थितिमाह
देहात्माद्यविवेकोऽयं सर्वदा सुलभो भवे । भव कोट्याऽपि तद्भेदविवेकस्त्वतिदुर्लभः ।। २॥