________________
शानसारे विद्याऽष्टकम्
अनप्रभावादेवाऽविद्यातिमिरध्वंसे सति परमात्मानं पश्यन्तीत्यन्वयः। अत्र च पक्षे तिमिरं तदाख्यो नेत्र रोगो बोध्यः । तथा चाऽञ्जनेन नेत्रतिमिरनाशात्पदार्थ परिच्छेद इति विद्यादृशाऽविद्यानाशस्तत्पूर्वकः परमात्मसाक्षात्कारश्चेति विद्यायाः कार्यद्वयम्-अविद्या नाश आत्म. साक्षात्कारश्च । अयमेव च पक्षः समुचितः प्रतिभाति । अविद्यातिमिरध्वंसे विद्याञ्जनमन्तरेण साधनान्तरविरहादिति बोध्यम् । आत्मा चोपाधिभेदात्रिधोच्यते । तत्र च मिथ्यादृष्टि बाह्यविषयाऽनुषक्तत्वाद्वाह्यात्मेति व्याख्यातारः, प्राप्ते सम्यक्त्वे' स्वगुणाऽभिमुखत्वादन्तर्मुख प्रवृत्तिक इत्यन्तरात्मा, शुद्धसच्चिदानन्दमयश्च सर्वो. पाधिरहितत्वात्स्वस्वरूपमात्राऽवस्थानात्परमात्मेति च व्याख्यातारः। भवान्तरे वर्तमानो ह्यात्मा ब ह्यात्मेति कलिकाल सर्वज्ञः । भवान्तर इति च भवयोरन्तरमृजु विग्रहगति दशेति बोध्यम् । तथा देहस्य मात्माऽन्तरात्मा, सिद्धिप्राप्तश्च परमात्मेत्यषि स एव । यदुक्तम्"परमात्मा सिद्धि प्राप्तौ बाह्यात्मा तु भवान्तरे । अन्तरात्मा भवेहेह इत्येष त्रिविधः शिव" इति । तत्र मिथ्यात्वेऽपगते सम्यक्त्वेऽधिमते च गुणवृद्धवा शुद्धात्मसाक्षात्कार इति विद्या सर्वोपायेन साधनीया, यथायोगलाभकमेणाऽऽत्मसाक्षात्कारः स्यादिति हृदयम् ।। ८ ॥ - इति श्रीज्ञानसारे प्रख्यातव्याख्यातृकविरत्न-पन्न्यासप्रवर
श्रीयशोभद्रविजयजीगणिवरशिष्यपन्न्यासश्रीशुभङ्करविजयगणिविरवितायां भद्रकरोदयाख्यायां व्याख्यायां विद्याऽएक नाम चतुर्दशमष्टकम् ॥ १४ ॥
...
.